Skip to main content
Search
Ch. 1 RV 1.29
Full Chapter
RV • Chapter 1: Canto 1

RV 1.29

Canonical Ref: RV 1.29
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तं वेधा विदधे नूनं महाभूतसमाधिना । तथा हि सर्वे तस्यासन्परार्थैकफला गुणा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ वेधाः स्रष्टा। `स्रष्टा प्रजापतिर्वेधाः` इत्यमरः (अ.को.1|1|17)। तं दिलीपम्। स्माधीयतेऽनेनेति समाधिः कारणसामग्री। महाभूतानां यः समाधिस्तेन महाभूतसमाधिना विदधे ससर्ज। नूनं ध्रुवम्। इत्युत्प्रेक्षा। तथा हि-तस्य राज्ञः सर्वे गुणा रूपरसादिमहाभूतगुणवदेव परार्थः परप्रयोजनमेवैकं मुख्यं फलं येषां ते तथोक्ता आसन्। महाभूतगुणोपमानेन कारणगुणाः कार्यं संक्रामन्तीति न्यायः सूचितः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.29. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.28) All Verses in Chapter 1 Next Verse (RV 1.30) →