Skip to main content
Search
Ch. 1 RV 1.30
Full Chapter
RV • Chapter 1: Canto 1

RV 1.30

Canonical Ref: RV 1.30
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स वेलावप्रवलयां परिखीकृतसागराम् । अनन्यशासनामुर्वीं शशासैकपुरीमिव ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स दिलीपः। वेलाः समुद्रकूलानि। `वेला कूलेऽपि वारिधेः` इति विश्वः। ता एव वप्रवलयाः प्राकारवेष्टनानि यस्यास्ताम्। `स्याञ्चयो वप्रमस्त्त्रियाम्। प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृत्तिः ॥` इत्यमरः (अ.को.2|2|3)। परितः खातं परिखा दुर्गवेष्टनम्। `खातं खेयं तु परिखा` इत्यमरः (अ.को.2|2|3) । `अन्येष्वपि दृश्यते` (पा.3।2।101)इत्यत्र `अपि` शब्दात् खनेर्डप्रत्ययः। अपरिखाः परिखाः संपद्यमानाः कृताः परिखीकृताः सागरा यस्यास्ताम्। अभूततद्भावे च्विः। अविद्यमानमन्यस्य राज्ञः शासनं यस्यास्तामनन्यशाननामुर्वीमेकपुरीमिव शशास। अनायासेन शासितवानित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.29) All Verses in Chapter 1 Next Verse (RV 1.31) →