Skip to main content
Search
Ch. 1 RV 1.31
Full Chapter
RV • Chapter 1: Canto 1

RV 1.31

Canonical Ref: RV 1.31
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा । पत्नी सुदक्षिणेत्यादीदध्वरस्येव दक्षिणा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य राज्ञो मगधवंशे जाता मगधवंशजा। `सप्तम्यां जनेर्डः` (पा.3।2।97) इति डप्रत्ययः। एतेनाभिजात्यमुक्तम्। दाक्षिण्यं परच्छन्दानुवर्तनम्। `दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु` इति शाश्वतः। तेन रूढं प्रसिद्धम्। तेन नाम्ना। अध्वरस्य यज्ञस्य दक्षिणा दक्षिणाख्या पत्नीव। सुदक्षिणेति प्रसिद्धा पत्न्यासीत्। अत्र श्रुतिः-`यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसः` इति। `दक्षिणाया दाक्षिण्यं नामर्त्विजो दक्षिणत्वप्रापकत्वम्।` `ते दक्षन्ते दक्षिणां प्रतिगृह्य` इति च ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.31. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.30) All Verses in Chapter 1 Next Verse (RV 1.32) →