Skip to main content
Search
Ch. 1 RV 1.28
Full Chapter
RV • Chapter 1: Canto 1

RV 1.28

Canonical Ref: RV 1.28
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम् । त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): द्वेष्य इति॥ शिष्टो जनो द्वेष्यः शत्रुरपि। आर्तस्य रोगिण औषधं यथौषधमिव। तस्य संमतोऽनुमत आसीत्। दुष्टो जनः प्रियोऽपि प्रेमास्पदीभूतोऽपि उरगक्षता सर्पदष्टाऽङ्गुलीव। `छिन्द्याद्बाहुमपि दुष्टमात्मः` इति न्यायात्। त्याज्य आसीत्। तस्य शिष्ट एव बन्धुर्दुष्ट एव शत्रुरित्यर्थः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 1.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.27) All Verses in Chapter 1 Next Verse (RV 1.29) →