Skip to main content
Search
RV
Raghuvaṁśam • Chapter 01

Canto 1

प्रथमः सर्गः (वसिष्ठाश्रमाभिगमनम्)

Canto 1 of Raghuvaṁśam.

Total: 95 Verses • Citations: RV 1.1–95 • 1 Lexicon Terms • Page 4 of 4 (Verses 5 shown)
RV 1.91 अनुष्टुप्
इत्या प्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इत्यनेन प्रकारेण त्वमा प्रसादात् प्रसादपर्यन्तम्। `आङ् मर्यादाभिविध्योः` (पा.2।1।13) इत्यस्य वैभाषिकत्वादसमासत्वम्। अस्या धेनोः परिचर्यापरः शुश्रूषापरो भवः; ते तवाविघ्नं विघ्नस्याभावोऽस्तु। `अव्ययं विभक्ति-` (पा.2।1।6)इत्यादिनार्थाभावेऽव्ययीभावः। पितेव पुत्रीणां सत्पुत्रवताम्। प्रशंसायामिनिप्रत्ययः। धुर्यग्रे स्थेयास्तिष्ठेः। आशीरर्थे लिङ्। `एर्लिङि` (पा.6।4।67) इत्याकारस्यैकारादेशः। त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः॥
RV 1.92 अनुष्टुप्
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तथेति॥ देशकालज्ञः देशोऽग्निसंनिधिः। कालोऽग्निहोत्रावसानसमयः, विशिष्टदेशकालोत्पन्नमार्षं ज्ञानमव्याहतमिति जानन्। अत एव प्रीतिमान् शिष्योऽन्तेवासी राजा सपरिग्रहः सपत्नीकः। `पत्नीपरिजनादानमूलशापाः परिग्रहाः` इत्यमरः (अ.को.3|3|252)। आनतो विनयनम्रः सन्। शासितुर्गुरोरादेशमाज्ञां तथेति प्रतिजग्राह स्वीचकार॥
RV 1.93 अनुष्टुप्
अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम् । सूनुः सूनृतवाक्स्रष्टुर्विससर्जोदितश्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ प्रदोषे रात्रौ दोषज्ञो विद्वान्। `विद्वान्विपश्चिपश्चिद्दोषज्ञः` इत्यमरः (अ.को.3|3|225)। सूनृतवाक् सत्यप्रियवाक्। `प्रियं सत्यं च सूनृतम्` इति हलायुधः। स्रष्टुः सूनुर्ब्रह्मपुत्रो मुनिः। अनेन प्रकृतकार्यनिर्वाहकत्वं सूचयति। उदितश्रियं विशांपतिं मनुजेश्वरम्। `द्वौ विशौ वैश्यमनुजौ` इत्यमरः (अ.को.3|3|225)। संवेशाय निद्रायै। `स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि` इत्यमरः (अ.को.1|7|38)। विससर्जाज्ञापयामास ॥
RV 1.94 अनुष्टुप्
सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः । कल्पवित्कल्पयामास वन्यामेवास्य संविधाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सत्यामिति॥ कल्पविद्व्रतप्रयोगाभिज्ञो मुनिः तपःसिद्धौ सत्यामपि। तपसैव राजयोग्याहारसंपादनसामर्थ्ये सत्यपीत्यर्थः। नियमापेक्षया तदाप्रभृत्येव व्रतचर्यापेक्षया। अस्य राज्ञो वन्यामेव। संविधीयतेऽनयेति संविधाम्। कुशादिशयनसामग्रीम्। `आतश्चोपसर्गे` (पा.3।1।136) इति कप्रत्ययः, `अकर्तरि च कारके संज्ञायाम्` (पा.3।3।19) इति कर्माद्यर्थत्वम्। कल्पयामास संपादयामास ॥
RV 1.95 प्रहर्षिणी
निर्दिष्टां कुलपतिना स पर्णशालामध्यास्य प्रयतपरिग्रहद्वितीयः । तच्छिष्याध्ययननिवेदितावसानां संविष्टः कुशशयने निशां निनाय ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निर्दिष्टामिति॥ स राजा कुलपतिना मुनिकुलेश्वरेण वसिष्ठेन निर्दिष्टां पर्णशालामध्यास्याधिष्टाय। तस्यामधिष्ठानं कृत्वेत्यर्थः। `अधिशीङ्-` (पा.1।4।46) इत्यादिनाधारस्य कर्मत्वम्। कर्मणि द्वितीया। प्रयतो नियतः परिग्रहः पत्नी द्वितीयो यस्येति स तथोक्तः। कुशानां शयने संविष्टः सुप्तः सन्। तस्य वसिष्टस्य शिष्याणामध्ययनेनापररात्रवेदपाठेन निवेदितमवसानं यस्यास्तां निशां निनाय गमयामास। अपररात्राध्ययने मनुः-(4।99) `निशान्ते न परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत्`। `न चापररात्रमधीत्य पुनः स्वपेत्` इति गौतमश्च। प्रहर्षिणीवृत्तमेतत्। तदुक्तम्-`म्नौ ज्रौ गस्त्त्रिदशयतिः प्रहर्षिणीयम्`॥
Full Table of Contents Next (Ch. 2) →