Skip to main content
Search
Full Chapter
RV • Chapter 2: Canto 2

RV 2.1

Canonical Ref: RV 2.1
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम् । वनाय पीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या। प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या। तां तथोक्तम्। पीतं पानमस्यास्तीति पीतः। पीतवानित्यर्थः। `अर्शआदिभ्योऽच्` (पा.5।2।127) इत्यच्प्रत्ययः। `पीता गावो भुक्ता ब्राह्मणाः` इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तुम्। `क्रियार्थोपपद-` (पा.2।3।14) इत्यादिना चतुर्थी। मुमोच मुक्तवान्। `जायां` पदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसंधेयम्। तथा हि श्रुतिः-`पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः।` इति। `यशोधन` इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते। अस्मिन्सर्गे वृत्तमुपजातिः-`अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः`इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 1.95) All Verses in Chapter 2 Next Verse (RV 2.2) →