Skip to main content
Search
Ch. 2 RV 2.30
Full Chapter
RV • Chapter 2: Canto 2

RV 2.30

Canonical Ref: RV 2.30
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः । जाताभिषङ्गो नृपतिर्निषङ्गादुद्धर्तुमैच्छत्प्रसभोद्धृतारिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः सिंहदर्शनानन्तरं मृगेन्द्रगामी सिंहगामी। शरणं रक्षणम्। `शरणं गृहरक्षित्रोः` इत्यमरः (अ.को.3|3|59)। `शरणं रक्षणे गृहे`इति यादवः। शरणे साधुः शरण्यः, `तत्र साधुः` (पा.4।4।98) इति यत्प्रत्ययः। प्रसभेन बलात्कारेणोद्धृता अरयो येन स नृपती राजा जाताभिषङ्गो जातपराभवः सन्। `अभिषङ्गः पराभवे` इत्यमरः (अ.को.3|3|59)। वध्यस्य वधार्हस्य। `दण्डादिभ्यो यत्` (पा.5।1।66) इति यत्प्रत्ययः। मृगन्द्रस्य वधाय निषङ्गात्तूणीरात् `तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः` इत्यमरः (अ.को.2|8|88)। शरमुद्धर्तुमैच्छत् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.30. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.29) All Verses in Chapter 2 Next Verse (RV 2.31) →