Skip to main content
Search
Ch. 2 RV 2.31
Full Chapter
RV • Chapter 2: Canto 2

RV 2.31

Canonical Ref: RV 2.31
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे । सक्ताङ्गुलिः सायकपुङ्ख एव चित्रार्पितारम्भ इवावतस्थे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वामेति॥ प्रहर्तुस्तस्य वामेतरो दक्षिणः करः। नखप्रभाभिर्भूषितानि विच्छुरितानि कङ्कस्य पक्षिविशेषस्य पत्राणि यस्य तस्मिन्। `कङ्कः पक्षिविशेषे स्याद्गुप्ताकारे युधिष्टिरे` इति विश्वः। `कङ्कस्तु कर्कटः` इति यादवः। सायकस्य पुङ्ख एव कर्तर्याख्ये मूलप्रदेशे। `कर्तरी पुङ्खे`इति यादवः। सक्ताङ्गुलिः सन्। चित्रार्पितारम्भश्चित्रलिखितशरोद्धरणोद्योग इव। अवतस्थे ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.31. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.30) All Verses in Chapter 2 Next Verse (RV 2.32) →