Skip to main content
Search
Ch. 2 RV 2.32
Full Chapter
RV • Chapter 2: Canto 2

RV 2.32

Canonical Ref: RV 2.32
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
बाहुप्रतिष्टम्भविवृद्धमन्युरभ्यर्णमागस्कृतमस्पृशद्भिः । राजा स्वतेजोभिरदह्यतान्तर्भोगीव मन्त्त्रौषधिरुद्धवीर्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): बाह्विति॥ बाह्वोः प्रतिष्मम्भेन प्रतिबन्धेन। `प्रतिबन्धः प्रतिष्टम्भः` इत्यमरः (अ.को.3|1|66)। विवृद्धमन्युः प्रवृद्धरोषो राजा। मन्त्त्रौषधिभ्यां रुद्धवीर्यः प्रतिबद्धशक्तिर्भोगीसर्प इव। `भोगी राजभुजंगयोः` इति शाश्वतः। अभ्यर्णमन्तिकम्। `उपकण्ठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोऽव्ययम्` इत्यमरः (अ.को.3|1|66)। आगस्कृतमपराधकारिणम्, अस्पृशद्भिः स्वतेजोभिरन्तरदह्यत। `अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि` इति यादवः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.32. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.31) All Verses in Chapter 2 Next Verse (RV 2.33) →