Skip to main content
Search
Ch. 2 RV 2.33
Full Chapter
RV • Chapter 2: Canto 2

RV 2.33

Canonical Ref: RV 2.33
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्माययन्विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ निगृहीता पीडिता धेनुर्येन स सिंहः। आर्याणां सतां गृह्यं पक्ष्यम्। `पदास्वैरिबाह्यापक्ष्येषु च` (पा.3।1।119) इति क्यप्। मनुवंशस्य केतुं चिह्नं केतुवद्व्यावर्तकम्। सिंह इवोरुसत्त्वो महाबलस्तम्। आत्मनो वृत्तौ बाहुस्तम्भरूपे व्यापारेऽभूतपूर्वत्वाद्विस्मितम्। कर्तरि क्तः। तं दिलीपं मनुष्यवाचा करणेन। पुनर्विस्माययन् स्मयमाश्चर्यं प्रापयन्निजगाद। `स्मिङ् ईषद्धसने` इति धातोर्णिचि वृद्धावायादेशे शतृप्रत्यये च सति विस्माययन्निति रूपं सिद्धम्। `विस्मापयन्` इति पाठे पुगागममात्रं वक्यव्यम्। तञ्च `नित्यं स्मयतेः` (पा.6।1।57) इति हेतुभयविवक्षायामेवेति `भीस्म्योर्हेतुभये` (पा.1।3।68) इत्यात्मनेपदे विस्मापयमान इति स्यात्। तस्मान्मनुष्यवाचा विस्माययन्निति रूपं सिद्धम्। करणविवक्षायां न कश्चिद्दोषः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.33. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.32) All Verses in Chapter 2 Next Verse (RV 2.34) →