Skip to main content
Search
Ch. 2 RV 2.34
Full Chapter
RV • Chapter 2: Canto 2

RV 2.34

Canonical Ref: RV 2.34
Metrical Form: उपेन्द्रवज्रा
Sanskrit (Devanāgarī)
अलं महीपाल! तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात् । न पादणेन्मूलनशक्ति रंहः शिलोञ्चये मूर्च्छति मारुतस्य ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अलमिति॥ हे महीपाल! तव श्रमेणालम्, साध्याभावाच्छ्रमो न कर्तव्य इत्यर्थः। अत्र गम्यमानसाधनक्रियापेक्षया श्रमस्य करणत्वात्तृतीया। उक्तं च न्यासोद्द्योते-`न केवलं श्रूयमाणैव क्रिया निमित्तं करणभावस्य । अपि तर्हि गम्यमानापि` इति। `अलं भूषणपर्याप्तिशक्तिवारणवाचकम्` इत्यमरः (अ.को.3|3|267)। इतोऽस्मिन्मयि। सार्वविभक्तिकस्तसिः। प्रयुक्तमप्यस्त्त्रं वृथा स्यात्। तथा हि-पादपोन्मूलने शक्तिर्यस्य तत्तथोक्तं मारुतस्य रंहो वेगः शिलोञ्चये पर्वते न मूर्च्छति न प्रसरति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.34. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.33) All Verses in Chapter 2 Next Verse (RV 2.35) →