Skip to main content
Search
Ch. 2 RV 2.35
Full Chapter
RV • Chapter 2: Canto 2

RV 2.35

Canonical Ref: RV 2.35
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम् । अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): कैलासेति॥ कैलास इव गौरः शुभ्रस्तम्। `चामीकरं च शुभ्रं च गौरमाहुर्मनीषिणः` इति शाश्वतः। वृषं वृषभम्, आरुरुक्षोरारोढुमिच्छोः। स्वस्योपरि पदं निक्षिप्य वृषमारोहतीत्यर्थः। अष्टौ मूर्तयो यस्य स तस्याष्टमूर्तेः शिवस्य पादार्पणं पादन्त्यासस्तदेवानुग्रहः प्रसादस्तेन पूतं पृष्ठं यस्य तं तथोक्तं निकुम्भमित्रं कुम्भोदरं नाम किंकरं मामवेहि विद्धि। `पृथिवी सलिलं तेजौ वायुराकाशमेव च । सूर्यां चन्द्रमसौ मोमयाजी चेत्यष्टमूर्तयः ॥` इति यादवः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.35. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.34) All Verses in Chapter 2 Next Verse (RV 2.36) →