Skip to main content
Search
Ch. 2 RV 2.36
Full Chapter
RV • Chapter 2: Canto 2

RV 2.36

Canonical Ref: RV 2.36
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अमुं पुरः पश्यसि देवदारुं पुत्रीकृतोऽसौ वृषभध्वजेन । यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अमुमिति॥ पुरोऽग्रतोऽग्रतोऽमुं देवदारुं पश्यसि। इति काकुः। असौ देवदारुः। वृषभो ध्वजे यस्य स तेन शिवेन पुत्रीकृतः पुत्रत्वेन स्वीकृतः। अभूततद्भावे च्विः। यो देवदारुः स्कन्दस्य मातुर्गौर्या हेम्नः कुम्भ एव स्तनः तस्मान्निःसृतानां पयसामम्बूनां रसज्ञः स्वादज्ञः। स्कन्दपक्षे, -हेमकुम्भ इव स्तन इति विग्रहः। पयसां क्षीराणाम्। `पयः क्षीरं पयोऽम्बु च` इत्यमरः। स्कन्दसमानप्रेमास्पदमिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 2.36. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 2.35) All Verses in Chapter 2 Next Verse (RV 2.37) →