स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ । दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥
दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् । पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥
पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः । नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥
सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥
छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण मेजे साम्राज्यदीक्षितम् ॥
परिकल्पितसांनिध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥
मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः । तथाप्यनन्यपूर्वेव तस्मिन्नासीद्धसुंधरा ॥
स हि सर्वस्य लोकस्य युक्तदण्डतया मनः । आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥
मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ । फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥
नयविद्भिर्नवे राज्ञि सदसञ्चोपदर्शितम् । पूर्वं एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः ॥
पञ्जानामपि भूतानामुत्कर्षं पुपुषुर्गुणाः । नवे तस्मिन्महीपाले सर्वं नवमिवाभवत् ॥
यथा प्रह्लादनाञ्चन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात् ॥
कामं कर्णान्तविश्रान्ते विशाले तस्य लोचने । चक्षुष्मत्ता तु शास्त्त्रेण सूक्ष्मकार्यार्थदर्शिना ॥
लब्धप्रशमनस्वस्थमथैनं समुपस्तिता । पार्थिवश्रीर्दितीयेव शरत्पङ्कजलक्षणा ॥
निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः । प्रतापस्तस्य भानोश्च युगपद्व्यानशे दिशः ॥
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥
पुण्डरीकातपत्रस्तं विकसत्काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम् ॥
प्रसादसुमुखे तस्मिंश्चन्द्रे च विशदप्रभे । तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः ॥
हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु । विभूतयस्तदीयानां पर्यस्ता यशसामिव ॥
इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयम् । आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥
प्रससादोदयादम्भः कुम्भयोनेर्महौजसः । रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः ॥
मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः । लीलाखेलमनुप्रापुर्महोक्षास्तस्य विक्रमम् ॥
प्रसवैः सप्तपर्णानं मदगन्धिभिराहताः । असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः ॥
सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान् । यात्रायै चोदयामास तं शक्तेः प्रथमं शरत् ॥
तस्मै रुम्यग्घुतो विह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥
स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः । षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥
अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः । पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतम् ॥
स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा । अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः । भुवस्तलमिव व्योम कुर्वन्व्योमेव भूतलम् ॥
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् । ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥