Skip to main content
Search
Ch. 4 RV 4.16
Full Chapter
RV • Chapter 4: Canto 4

RV 4.16

Canonical Ref: RV 4.16
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ । प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वार्षिकमिति॥ इन्द्रः। वर्षासु भवं वार्षिकम्, वर्षानिमित्तमित्यर्थः। `वर्षाभ्यष्ठक्` (पा.4।3।18) इति ठक्प्रत्ययः। धनुः संजहार। रघुर्जैत्रं जयशीलम्। `जेतृ`शब्दात्तृन्नन्तात् `प्रज्ञादिभ्यश्च` (पा.5।4।38) इति स्वार्थेऽण्प्रत्ययः। धनुर्दधौ। हि यस्मात् ताविन्द्ररघू प्रजानामर्थस्य प्रयोजनस्य वृष्टिविजयलक्षणस्य साधने विषये पर्यायेणोद्यते कार्मुके याभ्यां तौ पर्यायोद्यतकार्मुकौ। `पर्यायोद्यमविश्रमौ` इति पाठान्तरे पर्यायेणोद्यमो विश्रमश्च ययोस्तौ पर्यायोद्यमविश्रमौ। द्वयोः पर्यायकरणादक्लेशः इति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.15) All Verses in Chapter 4 Next Verse (RV 4.17) →