Skip to main content
Search
Ch. 4 RV 4.25
Full Chapter
RV • Chapter 4: Canto 4

RV 4.25

Canonical Ref: RV 4.25
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्मै रुम्यग्घुतो विह्निर्वाजिनीराजनाविधौ । प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मा इति॥ वाजिनामश्वानां नीराजनाविधौ नीराजनाख्ये शान्तिकर्मणि सम्यग्विधिवद्धुतो होमसमिद्धो वह्निः। प्रगता दक्षिणं प्रदक्षिणम्। तिष्ठद्गुप्रभृतित्वादव्ययीभावः। प्रदक्षिणं याऽर्चिर्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ। उक्तं महायात्रायाम्-`इद्धः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगा करोति` इति। `वाजि`ग्रहणं गजादीनामप्युपलक्षणम्, तेषामपि नीराजनाविधानात् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.24) All Verses in Chapter 4 Next Verse (RV 4.26) →