Skip to main content
Search
Ch. 3 RV 3.21
Full Chapter
RV • Chapter 3: Canto 3

RV 3.21

Canonical Ref: RV 3.21
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
श्रुतस्य यायादयमन्तमर्भकस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविञ्चकार नाम्ना रघुमात्मसंभवम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): श्रुतस्येति॥ अर्थविच्छब्दार्थज्ञः पार्थिवः पृथिवीश्वरो दिलीपः। अयमर्भको बालकः श्रुतस्य शास्त्त्रस्यान्तं पारं यायात्। तथा युधि परेषां शत्रूणामन्तं पारं च यायात्। यातुं शक्नुयादित्यर्थः। `शकि लिङ् च` (पा.3।3।172)इति शक्यार्थे लिंङ्। इति होतोर्धातोः `अधिवधिलधि गत्यर्थाः` इति लधिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्च। आत्मसंभवं पुत्रं नाम्ना रघुं चकार। `लङ्घिवं ह्योर्नलोपश्च`(वा.4798) इत्यप्रत्यये `बलमूललघ्वलमङ्गुलीनां वा लो रत्वमापद्यते`(उ.सू.29) इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम्। अत्र शङ्खः-`आशौचे तु व्यतिक्रान्ते नामकर्म विधीयते` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.20) All Verses in Chapter 3 Next Verse (RV 3.22) →