Skip to main content
Search
Ch. 3 RV 3.23
Full Chapter
RV • Chapter 3: Canto 3

RV 3.23

Canonical Ref: RV 3.23
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ । तथा नृपः सा च सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उमेति॥ उमावृषाङ्कौ पार्वती-वृषभध्वजौ शरजन्मना कार्तिकेयेन। `कार्तिकेयो महासेनः शरजन्मा षडाननः` इत्यमरः (अ.को.1|1|48)। यथा ननन्दतुः। शचीपुरंदरौ जयन्तेन जयन्ताख्येन सुतेन। `जयन्तः पाकशासनिः` इत्यमरः (अ.को.1|1|56)। यथा ननन्दतुः। तथा तत्समौ ताभ्यामुमान्वृषाङ्काभ्यां शची-पुरंदराभ्यां च समौ समानौ सा मागधी नृपश्च तत्सदृशेन ताभ्यां कुमार-जयन्ताभ्यां सदृशेन सुतेन ननन्दतुः। मागधी प्रग्व्याख्याता ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.22) All Verses in Chapter 3 Next Verse (RV 3.24) →