Skip to main content
Search
Ch. 3 RV 3.28
Full Chapter
RV • Chapter 3: Canto 3

RV 3.28

Canonical Ref: RV 3.28
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
स वृत्तचूलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः । लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रमाविशत् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ `चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः। प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात्॥` (2।34) इति मनुस्मरणात्तृतीये वर्षे वृत्तचूलो निष्पन्नचूडाकर्मा सन्। डलयोरभेदः। स रघुः। `प्राप्ते तु पञ्चमे वर्षे विद्यारम्भं च कारयेत्` इति वचनात्पञ्चमे वर्षे चलकाकपक्षकैश्चञ्चलशिखण्डकैः। `बालानां तु शिखा प्रोक्ता काकपक्षः शिखण्डकः` इति हलायुधः। सवयोभिः स्निग्धैः। `वयस्यः स्निग्धः सवयाः` इत्यमरः (अ.को.2|8|12)। अमात्यपुत्रैरन्वितः सन्। लिपेः पञ्चाशद्वर्णात्मिकाया मातृकाया यथावद्ग्रहणेन सम्यग्बोधेनोपायभूतेन वाङ्मयं शब्दजातम्। नद्यामुखं द्वारम्। `मुखं तु वदने मुख्यारम्भे द्वाराभ्युपाययोः` इति यादवः। तेन कश्चिन्मकरादिः समुद्रमिव। आविशत् प्रविष्टः। ज्ञातवानित्यर्थः॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.27) All Verses in Chapter 3 Next Verse (RV 3.29) →