Skip to main content
Search
Ch. 3 RV 3.10
Full Chapter
RV • Chapter 3: Canto 3

RV 3.10

Canonical Ref: RV 3.10
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
प्रियानुरागस्य मनः समुन्नतेर्भुजार्जितानां च दिगन्तसंपदाम् । यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): प्रियेति॥ धीरः स राजा प्रियायामनुरागस्य स्नेहस्य । मनसः समुन्नतेरौदार्यस्य। भुजेन भुजबलेन करेण वाऽर्जितानाम्, न तु वाणिज्यादिना। दिगन्तेषु संपदाम्। धृत्तेः पुत्रो मे भविष्यतीति संतोषस्य च, `धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु` इति विश्वः। सदृशीरनुरूपाः। पुमान् सूयतेऽनेनेति पुंसवनम्। तदादिर्यासां ताः क्रिया यथाक्रमं क्रममनतिक्रम्य व्यधत्त कृतवान्। `आदि`- शब्देनानवलोभनसीमन्तोन्नयने गृह्येते। अत्र मासि द्वितीये तृतीये वा पुंसवनम्। `यदहः पुंसा नक्षत्रेण चन्द्रमा युक्तः स्यात्` (1।16।3) इति पारस्करः। `चतुर्थेऽनवलोभनम्`(1।14) इत्याश्वलायनः । `षष्ठेऽष्टमे वा सीमन्तोन्नयनं` (आचार.11) इति याज्ञवल्क्यः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.9) All Verses in Chapter 3 Next Verse (RV 3.11) →