Skip to main content
Search
Ch. 3 RV 3.35
Full Chapter
RV • Chapter 3: Canto 3

RV 3.35

Canonical Ref: RV 3.35
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ तत आत्मना चिरं धृतां नितान्तगुर्वीम्। `वोतो गुणवचनात्` (पा.4।1।44) इति ङीष्। प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता। `तत्करोति तदाचष्टे`(ग.204) इति लघुशब्दाण्णिच्। ततो `लृटः सद्वा` (पा.3।3।18) इति शतृप्रत्ययः। नृपेण दिलीपेन। असौ रघुर्निसर्गेण स्वभावेन संस्कारेण शास्त्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः। युवराज इति शब्दं भजतीति तथोक्तः। `भजो ण्विः` (पा.3।2।62) इति ण्विप्रत्ययः। चक्रे कृतः। `द्विविधो विनयः स्वाभाविकः कृत्रिमश्च` इति कौटिल्यः। तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः। अत्र कामन्दकः-`विनीयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान्। अविनीतकुमारं हि कुलमाशु विशीर्यते ॥ विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत्॥` इति ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.35. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.34) All Verses in Chapter 3 Next Verse (RV 3.36) →