Skip to main content
Search
Ch. 3 RV 3.40
Full Chapter
RV • Chapter 3: Canto 3

RV 3.40

Canonical Ref: RV 3.40
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विषादलुप्तप्रतिपत्ति विस्मितं कुमारसैन्यं सपदि स्थितं च तत् । वसिष्ठधेनुश्च यदृच्छयागता श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): विषादेति॥ तत् कुमारस्य सैन्यं सेना सपदि। विषाद इष्टनाशकृतो मनोभङ्गः। तदुक्तम्-`विषादश्चेतसो भङ्ग उपायाभावनाशयोः` इति। तेन लुप्ता प्रतिपत्तिः कर्तव्यज्ञानं यस्य तत्तथोक्तम्। विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत्। स्थितं तस्थौ। अथ श्रुतप्रभावा यदृच्छया स्वेच्छयागता। रघोः स्वप्रसादलब्धत्वादनुजिघृक्षयेति भावः। नन्दिनी नाम वसिष्ठधेनुश्च ददृशे। द्वौ चकारावविलम्बसूचकौ ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.40. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.39) All Verses in Chapter 3 Next Verse (RV 3.41) →