Skip to main content
Search
Ch. 3 RV 3.39
Full Chapter
RV • Chapter 3: Canto 3

RV 3.39

Canonical Ref: RV 3.39
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
ततः परं तेन मखाय यज्वना तुरंगमुत्सृष्टमनर्गलं पुनः । धनुर्भृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम्। `क्रियार्थोपपदस्य-` (पा.2।3।14)इत्यादिना चतुर्थी। उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धम्। अव्याहतस्वैरगतिमित्यर्थः। `अपर्यावर्तयन्तोऽश्वमनुचरन्ति` इत्यापस्तम्बस्मरणात्। तुरंगं धनुर्भृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन्। जहार किल। `किल` इत्यैतिह्ये ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.39. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.38) All Verses in Chapter 3 Next Verse (RV 3.40) →