Skip to main content
Search
Ch. 3 RV 3.41
Full Chapter
RV • Chapter 3: Canto 3

RV 3.41

Canonical Ref: RV 3.41
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सत्ताम् । अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम्। मूत्रमित्यर्थः। तेन लोचने प्रमृज्य शोधयित्वा। अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा.1336) इति समासः। द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्नत्वम्। भावेष्वपि वस्तुषूपपन्नदर्शनः संपन्नसाक्षात्कारशक्तिर्बभूव ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.41. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.40) All Verses in Chapter 3 Next Verse (RV 3.42) →