Skip to main content
Search
Ch. 3 RV 3.49
Full Chapter
RV • Chapter 3: Canto 3

RV 3.49

Canonical Ref: RV 3.49
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): हरिरिति॥ पुरुषेषूत्तम इति सप्तमीसमासः। `न निर्धारणे` (पा.2।2।50)इति षष्ठीसमासनिषेधात्। कर्मधारये तु `सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः` इत्युत्तमपुरुष इति स्यात्। यथा ह्ररिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः। यथा च त्र्यम्बकः शिव एव महेश्वरः स्मृतः। नापरोऽपरः पुमान्न। तथा मां मुनयः शतक्रतुं विदुर्विदन्ति। `विदो लटो वा` (पा.3।4।83) इति झेर्जुसादेशः। नोऽस्माकम्। हरिहरयोर्मम चेत्यर्थः। एष त्रितयोऽपि शब्दो द्वितीयगामी न हि। द्वितीयाप्रकरणे नमिगम्यादीनामुपसंख्यानात्समासः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 3.49. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 3.48) All Verses in Chapter 3 Next Verse (RV 3.50) →