अथ
श्रृङ्गारप्रकाशे एकविंशः प्रकाशः
मोक्षश्रृङ्गारप्रकाशः
(मोक्षः)
तत्त्वज्ञानान्निःश्रेयसाधिगमो मोक्षः।
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावात्। तथाहि तत्त्वज्ञानान्मिथ्याज्ञानापाये दोषा अपयान्ति। दोषापाये प्रवृत्तिरपैति। प्रवृत्त्यपाये दुःखमपैति। सेयमात्यन्तिकी दुखप्रहाणिः। तत्त्वज्ञानान्निश्चितश्रेयसः तदुपायात् तु तदधिगमो मोक्ष इति।
दुःखं तु षडिन्द्रियाणि विषया बुद्धयश्चः दुःखहेतुत्वात्। शरीरं दुःखायतनत्वात्। दुःखं तु स्वरूपाऽस्वरूपमिति। भावयतः क्वचिदपि मनस्सङ्गः स्यात्। अनासङ्गाच्चायमपूर्वं नार्जयति। पूर्वार्जितं च इच्छाभोगैः क्षपयति। सर्वकर्मोद्भूतानि फलानि च जगद्गुरौ महेश्वरे संन्यस्यति प्रत्यवायपरिहारार्थं च नित्यनैमित्तिकानुष्ठानमाद्रियते। उक्तं च,
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम्।
ज्ञानं च निर्मलीकुर्वन्नभ्यासेन विपाचयेत्॥ १॥
अभ्यासात् पक्वविज्ञावः कैवल्यं लभते नरः।
आनन्दं ब्रह्मणो रूपं कैवल्ये तत् प्रकाशते॥ २॥
योगश्च धर्ममर्जयन् समाधिना सर्वकर्माणि दहति। उक्तं च, 'योगी खलु बुद्धौ प्रादुर्भूतायाम् अधिकरणधर्मं विनिर्माय सोन्द्रियाणि शरीराणि युगपद् भोगान् भुङ्क्ते' इति।
'तत्त्वज्ञानान्निःश्रेयसाधिगमः' (न्या. सू. १.१) इति यदुक्तं तद् व्याख्यायते। तत्र यथावस्थितपदार्थाधिगतिस्तत्त्वज्ञानम्। तस्मिन् सति यथावस्थितपदार्थानधिगतिः, अयथावस्थितपदार्थाधिगतिर्वा मिथ्याज्ञानं न स्यात्; ज्ञानस्य ज्ञानान्तरविरोधित्वात्। मिथ्याज्ञानविनाशे रागद्वेषादयो दोषा न भवन्ति। इदं सुखसाधकम् इदं दुःखसाधकम्, एतन्मदीयम् अदः परकीयम्, इति हि मिथ्याज्ञानं रागद्वेषहेतुः। यथा तु निवृत्तौ दुःखरूपतया जगत्स्वरूपमवगच्छतः स्वशरीरादावपि सर्वं दुःखमिति तत्त्वज्ञानं स्यात्, तदा औदासीन्याद् रागद्वेषादयः स्वयमेव प्रलीयन्ते। उक्तं च,
भयं भावयतः सम्यग्ज्ञानाद् दोषसमाकुलम्।
अवश्यं रागिणोऽप्याशु विराग उपजायते॥ ३॥
विरागात् क्षीयतेऽविद्या विद्या चान्तः प्रबुध्यते।
ततः प्रकाशते ज्ञानं ततो निर्वाणमृच्छति॥ ४॥
दोषाभावे तु धर्मप्रवृत्तिरधर्मप्रवृत्तिर्वा न स्यात्। सर्वोऽपि सुखार्थमेव प्रवर्तते। दुःखार्थं तु न प्रवर्तत इति। यदा तु 'सर्वं दुःखं विवेकिनः' (योगसू. २.१५) इति ज्ञानात् सुखमेव नास्तीति जानीयात्, तदा किमर्थं प्रवर्त्स्यति? किमर्थं वा न प्रवर्त्स्यतीति, प्रवृत्त्यभावेऽपि जन्मापि न स्यात्। धर्माधर्मोपभोगार्थं हि प्राणिनां जन्म। धर्माधर्मौ तु प्रवृत्तिमन्तरेण न स्तः। धर्माधर्मानुप्रवृत्तिः पृथक्पृथग् दशधा। सा तु अभिहिता पुरस्तात् प्रवृत्तिरूपधर्मप्रस्ताव१ इति नेहोच्यते।
जन्माभावे तु दुःखमपि न भवति। यतः 'षडिन्द्रियाणि' इत्याद्येकविंशतिप्रभेदं दुःखं, तच्च जन्माभावे शरीरादिविरहात् निराश्रयं निरुपलम्भं निर्हेतुकं कस्य स्यादिति, येयमपुनर्भावादात्यन्तिकी दुःखप्रहाणिर्निःश्रेयसं तदधिगमश्च ज्ञानान्मोक्ष इति। तच्च तत् ज्ञानं निःश्रेयसं च यथाविद्यमधिगन्तव्यम्।
मोक्षविद्याविदां हि तत्त्वज्ञाने निःश्रेयसे च विप्रतिपत्तिः। तत्र—
तत्त्वज्ञाने एकं, द्वे, त्रीणि, चत्वारि, पञ्च, षट्, षोडश च तत्त्वानीति। तत्र—
एकं यथा— 'एकमक्षरमुपासीत' इति (छान्दोग्ये), 'आत्मैवेदं सर्वम्' (बृहदारण्यके), 'सर्वं खल्विदं ब्रह्म' इति (शाण्डिल्यविद्या),'न तु द्वयमस्ति' इति, 'वेदोऽखिलो धर्ममूलम्' इति (मनुस्मृ. २.६)।
द्वे यथा— द्वे वाव ब्रह्मणो रूपे विद्या चाविद्या च, सम्भूतिर्विनाशश्च, (लोलीभावः?)२ पक्वावबोधश्च, सामान्यं विशेषश्च, प्रकृतिः पुरुषश्च इति।
त्रीणि यथा— व्यक्तिराकृतिर्जातिरिति, व्यक्तमव्यक्तं व्यक्ताव्यक्तमिति, हेयमुपादेयमुपेक्षणीयमिति, तत्त्वमात्मा शरीरमिति, ज्ञानं क्रिया दैवतमिति, शिवः शक्तिः पुरुष इति।
१. पुरस्तात्— अष्टादशे प्रकाशे धर्मश्रृङ्गारप्रस्तावे। पृ॰ ९९४। २. अस्मत्कृता पूर्तिरियम्।
चत्वारि यथा— प्रमाणं, प्रमेयं, प्रमाता, प्रमितिरिति। जातिर्गुणः, क्रिया, द्रव्यं (माभा. १.१.३) चेति। वैखरी, मध्यमा, पश्यन्ती, सूक्ष्मेति। बहिःप्रज्ञा, अन्तःप्रज्ञा, सुषुप्तं, तुरीयमिति। पिण्डः, पदं, रूपं, रूपातीतमिति। तत्त्वं, भावो, भूतं, संवननमिति। दीक्षा, ज्ञानं, क्रिया, चर्येति। योगः, साधनं, विभूतिः, कैवल्यमिति। पृथिव्यापस्तेजो वायुरिति।
पञ्च यथा— पृथिव्यापस्तेजो वायुराकाशमिति। प्रकृतिः, पुरुषो, मात्रा, शक्तिः, शिव इति। पञ्चब्रह्मार्थपरिज्ञानमिति। जाग्रत्, स्वप्नं, सुषुप्तं, तुर्यं, तुर्यातीतमिति। रूपं, वेदना, संज्ञा, संस्कारो, विज्ञानमिति।
षड् यथा— ब्रह्म खानिलतेजांसि जलं भूरिति। द्रव्यं, गुणाः कर्म, सामान्यं विशेषाः, समवाय इति। तत्त्वानि, पदानि, भुवनानि, वर्णा, मन्त्राः, काला इति। गुणा, गहनं, ग्रन्थिः, मूलं, शक्तिः, शिव इति। मूलजालमधिमोक्तृचेतना ज्ञानमेतदधिनायकाः (द्र. पृ. ४०३)१, 'शक्तयः शक्तिनायकाः' इति। पाशाः पशवो विद्या विद्येश्वराः शक्तिः शिव इति। जीवाः पु्द्गलाः काल आकाशो धर्मोऽधर्म इति।
षोडश यथा— प्रमाणानि, प्रमेयः, संशयः, प्रयोजनं, दृष्टान्तः, सिद्धान्तः, अवयवाः, (तर्कः) निर्णयः, वादः, जल्पो, वितण्डा, हेत्वाभासाः, छलं जातयः, निग्रहस्थानानानीति॥
अथ निःश्रेयसे—