Skip to main content
Search
Ch. 21 SP 21.18
Full Chapter
SP • Chapter 21: Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

SP 21.18

Canonical Ref: SP 21.18
Sanskrit (Devanāgarī)
दोषाभावे तु धर्मप्रवृत्तिरधर्मप्रवृत्तिर्वा न स्यात्। सर्वोऽपि सुखार्थमेव प्रवर्तते। दुःखार्थं तु न प्रवर्तत इति। यदा तु 'सर्वं दुःखं विवेकिनः' (योगसू. २.१५) इति ज्ञानात् सुखमेव नास्तीति जानीयात्, तदा किमर्थं प्रवर्त्स्यति? किमर्थं वा न प्रवर्त्स्यतीति, प्रवृत्त्यभावेऽपि जन्मापि न स्यात्। धर्माधर्मोपभोगार्थं हि प्राणिनां जन्म। धर्माधर्मौ तु प्रवृत्तिमन्तरेण न स्तः। धर्माधर्मानुप्रवृत्तिः पृथक्पृथग् दशधा। सा तु अभिहिता पुरस्तात् प्रवृत्तिरूपधर्मप्रस्ताव१ इति नेहोच्यते।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 21.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 21.17) All Verses in Chapter 21 Next Verse (SP 21.19) →