Skip to main content
Search
Ch. 21 SP 21.19
Full Chapter
SP • Chapter 21: Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

SP 21.19

Canonical Ref: SP 21.19
Sanskrit (Devanāgarī)
जन्माभावे तु दुःखमपि न भवति। यतः 'षडिन्द्रियाणि' इत्याद्येकविंशतिप्रभेदं दुःखं, तच्च जन्माभावे शरीरादिविरहात् निराश्रयं निरुपलम्भं निर्हेतुकं कस्य स्यादिति, येयमपुनर्भावादात्यन्तिकी दुःखप्रहाणिर्निःश्रेयसं तदधिगमश्च ज्ञानान्मोक्ष इति। तच्च तत् ज्ञानं निःश्रेयसं च यथाविद्यमधिगन्तव्यम्।
Canonical CTS URN Reference
Śṛṅgāraprakāśa of Bhoja, SP 21.19. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (SP 21.18) All Verses in Chapter 21 Next Verse (SP 21.20) →