१. 'चिद्घनमानन्दं ब्रह्म' इति,
२. 'तदा दृष्टृस्वरूपेऽवस्थानम्' इति,
३. 'सर्वकर्मभिरसंस्पर्शादौदासीन्यम्' इति,
४. 'गुणपुरुषान्तरविवेकदर्शनात् प्रकृतेरनुपसर्पणम्' इति,
५.'बुद्ध्यादीनामात्यन्तिकः सन्तानोच्छेदः' इति,
६. 'तत्त्वज्ञानादात्यन्तिकी दुःखप्रहाणिः' इति,
७.'निवर्तकधर्मो'X X X ल्प X X X कैवल्यावाप्ति' इति,
१. मूलजालमधिभोक्तृचेतना शक्त्यस्त्वदभिभोक्तृसंहतिः। ज्ञानमेतदधिनायकव्रजस्त्वत्स्मृतौ युगपदेव भासते॥
८. 'मलपरिणतेस्तीव्रशक्तिनिर्मितशरीरादिविरहः' इति,
९. 'दीक्षितस्य नाधो निरीक्षणम्' इति,
१०. 'साऽक्रमेण निःश्रेणिक्रमेण वा शिवपदावाप्तौ शिवसमानता' इति,
११. 'क्रियायोगान्महेश्वरगुणसश्रङ्क्रान्तिः' इति,
१२. 'अविद्योच्छेदाद् विद्याप्रकाशः' इति,
१३. 'समलचित्तविनाशैर्निर्मलचित्तोत्पादः' इति,
१४. 'सम्यक्सन्दर्शनज्ञानचारित्रैः कृत्स्नकर्मप्रमोक्षः' इति,
१५. 'जलबुद्बुदवज्जीवाः मदशक्तिवद् विज्ञानम्' इति,
१६. 'ज्ञानमिति ज्ञानात् प्रेत्यापुनर्भा(र्भ)वः' इति।
(मोक्षश्रृङ्गारः)
तदेतदुभयमप्युपायनमन्तरेण न प्राप्यत इत्युपायप्रदर्शकं शास्त्रं, शास्त्रस्य पुरुषश्रेयोऽभिधायकत्वात्। पुरुषस्य च शास्त्रोक्तैरुपायैस्तत्त्वज्ञानादिभिर्निःश्रेय— समीहमानस्य गार्हस्थ्येऽपि तदधिगतताभिमानो मोक्षश्रृङ्गारः। तथापि — अस्ति मे मोक्षाधिगमे योग्यता, अधीतानि मया मोक्षशास्त्राणि, निरन्तरा निवर्तकधर्मोत्पत्तिहेतवः क्रियाकलापाः, न पी/वीयते१ नित्यनैमित्तिकानि, प्रसीदन्ति चित्तवृत्तयः, प्राप्तो निरालम्बनः सालम्बनो वा योगः, स्वाधीनानि योगसाधनानि, स्थिरो हि बीजः निर्बीजः सबीजो वा समाधिलाभः, निवर्तन्ते योगविघ्नाः, प्रकाशते प्रत्यग्ज्योतिः, उन्मीलयन्ति तत्त्वसंवित्तयः प्रत्यासीदन्ति ज्योतिष्मत्यादयो योगावस्थाः, प्रादुर्भवन्ति च समस्ता योगर्द्धयः'— इत्यादियोग्यचेतसोऽभिमानः, स मोक्षश्रृङ्गारः इत्युच्यते। तन्निवृत्तौ च अस्याहङ्कारविरहान्मोक्ष एवेति, यावदहङ्कारवांस्तावदयं मोक्षश्रृङ्गारी, विरहिताहङ्कारस्तु मुक्त एवेति। यथा—
त्वामात्मानं वरद! परमानन्दबोधस्वरूपं ये बुध्यन्ते विगलितजगद्भेदमायाप्रपञ्चम्/ञ्चाः।
रागत्यागस्तिमितमनसो देव! जीवन्त एव त्रुट्यन्मायाविकटनिबिडग्रन्थयस्ते विमुक्ताः॥ ५॥
यथा च—
१. वीयते = वि + ईयते = नापगच्छन्ति।
मयि जीवत्यहङ्कारे पुरुषः पञ्चविंशकः।
तत्त्वज्ञानोपपन्नोऽपि न मोक्षं गन्तुमर्हति॥ ६॥
तत्र सात्त्वती वृत्तिः, आवन्त्या प्रवृत्तिः, लाटीया रीतिः, स्वकीया नायिका, धीरप्रशान्तश्च नायक इति। तेषु—
सात्त्वती व़ृत्तिस्तदनुरूपस्वरूपाङ्गत्वात्; तथाहि—(नाशा. २०.३६)
या सात्त्वतेनेह गुणेन युक्ता त्यागेन वृत्तेन समन्विता च।
हर्षोत्कटा संहृतशोकभावा सा सात्त्वती सत्त्ववतीहा वृत्तिः॥ ७॥
तदङ्गानि उत्थापकः, परिवर्तकः, संलापकः, सङ्घात्यक इति। सा तु 'या सात्त्वतेनेह गुणेन युक्ता' इत्यनेन सत्त्वतः = सत्कारवतो धीरप्रशान्तादेर्नायकस्य मोक्षश्रृङ्गाराधिकारिणो ये गुणास्तदुपलक्षितां चेष्टामाचष्टे। सत्त्ववन्तो हि सत्कारवन्तो मोक्षश्रृङ्गाराधिकारिण एवोच्यन्ते।