Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 14 of 16 (Verses 30 shown)
रामस्तुलितकैलासमरातिं बह्वमन्यत॥ ९७॥
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः।
हुङ्कारेणेव धनुषः स हि विघ्नान् व्यपोहति॥ ९८॥
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव।
धूमो निवर्त्येत समीरणेन यतो हि कक्षस्तत एव वह्निः॥ ९९॥
अथ नायिकागुणाः षोडष— 'महाकुलीनता, रूपसम्पत्तिः, यौवनं, सुवेषता, सौभाग्यं, शुचिता, शीलसम्पत्, प्रियंवदता, चातुर्यं, वाग्ग्मिता, शास्त्रज्ञानं, अदीनवाक्यता, अविकत्थनत्वं, मानिता, कृतज्ञता, दृढभक्तित्वम्' इति। तत्र—
१. महाकुलीनता यथा—(शाकु. १.२१)
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः?।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥ १००॥
तत्रानुदेवपरमाणुदलं विधातुरानन्दकारि यदभूदुपयोगि तस्याः।
यस्मान्न तादृशमसौ विहितश्रमोऽपि रूपं कदाचिदपरं घटयाञ्चकार॥ १०१॥
असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात् परं साऽथ वयः प्रपेदे॥ १०२॥
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम्।
मुक्ताकलापीकृतसिन्धुवारं वसन्तपुष्पाभरणं वहन्ती॥ १०३॥
पाणिग्गहणे च्चिअ पव्वईएँ णाअं सहीहिं सोहग्गं।
पसुवइणा वासुइकंकणम्मि ओसारिए दूरं॥ १०४॥
(पाणिग्रहणे एव पार्वत्याः ज्ञातं सखीभिः सौभाग्यम्।
पशुपतिना वासुकिकङ्कणेऽपसारिते दूरम्॥)
चच्चरघरिणी पिअदंसणा अ वाला पउत्थवइआ अ।
असई सअज्झिआ दुग्गआ अ ण हु खंडिअं सीलं॥ १०५॥
(चत्वरगृहिणी प्रियदर्शना च बाला प्रोषितपतिका च।
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →