Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 13 of 16 (Verses 30 shown)
स्थातुं नियोक्तुर्यदि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन॥ ८७॥
१३. देशकालावबोधो यथा—(किराता. २.४६)
अभियोग इमान् महीभुजो भवता तस्य कृतः कृतावधेः।
प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिव॥ ८८॥
१४. इङ्गिताकारज्ञता यथा—(शाकु. १.२८)
वाचं न मिश्रयति यद्यपि मद्‍वचोभिः कर्णं ददात्यवहिता मयि भाषमाणे।
कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥ ८९॥
१५. दाक्ष्यं यथा—(रामच. १.४७)
आततायी स विज्ञातो जीवत्यार्येति च श्रुतम्।
प्राप्‍तो यात्रासहः कालः कालक्षेपस्य को गुणः?॥ ९०॥
१६. कलावैदग्ध्यं यथा—(रघु. १९.१४)
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयोऽहरन्मनः।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलङ्घयत्॥ ९१॥
१७. चतुरता यथा—(किराता. १.१०)
सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम्॥ ९२॥
१८. रूपसम्पद् यथा—(उराच. ६.२०)
अहो प्रासादिकं रूपमनुभावश्च पावनः।
स्थाने रामायणकविर्दैवीं वाचमदीदिशत्॥ ९३॥
धन्यास्ता गुणरत्‍नरोहणभुवो यास्वे—(तदा)—सादितं धात्रा विस्मयकारि चारु घटितो येनायमेको युवा।
दृष्टे यत्र गलन्ति (मध्य)—रशनादामानि वामभ्रुवां सन्त्रासाद् द्विषतां धनूंषि विभवैरर्थव्यथाश्चार्थिनाम्॥ ९४॥
पात्रं ते सर्व एवार्थी देयं स्वमपि जीवितम्।
दाता त्वमेको लोकेऽस्मिन् सर्वोऽद्य कृपणो जनः॥ ९५॥
प्राणैरपि हिते वृत्तिरद्रोहो व्याजवर्जनम्।
आत्मनीव प्रियाधानमेतत् ते श्रीमहाव्रतम्॥ ९६॥
२२. महारम्भता यथा—(रघु. १२.८९)
जेतारं लोकपालानां ते मुखैरर्चितेश्वरम्।
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →