Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 9 of 16 (Verses 30 shown)
पइरिक्‍कम्मि वि विणआवलंबणं स च्‍चिअ कुणंती॥ ५६॥
(जानाति ज्ञापयितुमनुनयविद्रावितमानपरिशेषम्।
विजनेऽपि विनयावलम्बनं सैव कुर्वन्ती॥)
अण्णदइआपसंगं दे देव्व! कुणज्ज मज्झ दइअस्स।
पुलिसा एक्‍कंतरसा ण हु दोसगुणे विआणंति॥ ५७॥
(अन्यदयिताप्रसङ्गं हे देव! कुरुष्व मम दयितस्य।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति॥)
ललिता यथा—(गउडव. ६९०, गास. ९३३वे.)
उव्वहइ दइअगहिआहरोट्ठझिज्जंतरोसपडिराअं।
पाणोसरंतमइरं व फलिहचसअं मुहं बाला॥ ५८॥
(उद्वहति दयितगृहीताधरोष्ठक्षीयमाणरोप्रतिरागम्।
पानापसरन्मदिरमिव स्फटिकचषकं मुखं बाला॥)
अहवा गुण च्‍चिअ लहुआ अहवा गुणअण्णुओ ण सो लोओ।
अहव ह्मि णिग्गुणा वा बहुगुणो क्खु अण्णो जणो तस्स॥ ५९॥
(अथवा गुणा एव लघवोऽथवा गुणज्ञो न स लोकः।
अथवाऽस्मि निर्गुणा वा बहुगुणोपपन्नो जनस्तस्य॥)
नायिकासु उदात्ता यथा—(जाह. १०.५०)
द्वित्राण्यथ रथाद् भूमौ पदान्याधाय निस्सहा।
येयमद्य कियद् दूरमिति पप्रच्छ मैथिली॥ ६०॥
यद् वैद्युतमिव ज्योतिरार्ये क्रोधेन सम्भृतम्।
तत् प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यते॥ ६१॥
ततः सुनन्दावचनावसाने लज्जां मृदूकृत्य नरेन्द्रपुत्री।
दृष्ट्‍या प्रसादामलया कुमारं पर्यग्रहीत् संवरणस्रजेव॥ ६२॥
तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया।
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →