Skip to main content
Search
SP
Śṛṅgāraprakāśa of Bhoja • Chapter 21

Prakāśa 21: मोक्षश्रृङ्गारप्रकाशः

प्रकाशः 21 • मोक्षश्रृङ्गारप्रकाशः

Prakāśa 21 of Mahārājādhirāja Bhoja's encyclopedic masterpiece of poetics and aesthetics.

Total: 468 Verses • Citations: SP 21.1–468 • 4 Lexicon Terms • Page 5 of 16 (Verses 30 shown)
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ २२॥
१२. सदाचारेष्वादरो यथा—(नीतिश. ५१)
माधुर्यं प्रमदाजनेषु ललितं, दाक्षिण्यमार्ये जने विद्यायां व्यसनं, स्वयोषिति रतिर्लोकापवादाद् भयम्।
भक्तिः शूलिनि, शक्तिरात्मदमने, संसक्तिमुक्तिः खले येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो२ नमः॥ २३॥
१. इयमस्मत्कृताऽऽपूर्त्तिः। २. नरेभ्यो रा., महद्‍भ्यो जो.।
१३. सर्वकर्मसु१ फलानीप्‍सा ; यथा—
श्लाघ्यं यद् वै२ कृपणमनसां सप्‍तलोकाधिपत्यं या मृग्यन्ते तरलमतिभिः सिद्धयश्चाणिमाद्याः।
एतत् सर्वं मदनदहन! त्वत्पदप्राप्‍तिभाजां तत्त्वज्ञानामृतरसजुषां योगिनामन्तरायः॥ २४॥
१४. रागादिभिर्न धर्मबाधा; यथा—
न कामान्न च संरम्भान्नापि लोकाद् विभीषणात्।
न हेतुवादान्मोहाद् वा विद्वान् स्वं धर्ममुत्सृजेत्॥ २५॥
१५. कर्मातिशयैरविस्मयो यथा—(वैराग्यश॰ ६७) —
भुक्ताः श्रियः सकलकामदुघास्ततः किं ? सन्तर्पिताः प्रणयिनः स्वधनैस्ततः किम् ?।
दत्तं पदं शिरसि विद्विषतां ततः किं ? कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ?॥ २६॥
१६. जात्यादिभिर्नाभिमानः; यथा—
कुलाज्ज्ञानात् तथैश्वर्यान्मदः सञ्जायते नृणाम्।
एतैरेव विनीतानां दमः समुपजायते॥ २७॥
धैर्यप्रशमहेतवश्चाष्टौ विशेषणुणाः — 'क्षमा, वशित्वं, सन्तोषः, प्रशमः, शौचम्, आर्जवं, वेशारद्यं, वैराग्यमि'ति।
अतथ्येनोच्यमानस्य कः कोपो यन्न तत् तथा।
तथ्ये चाविहितः कोपो यदनुक्तेऽपि तत् तथा॥ २८॥
२. जितेन्द्रियता वशित्वं ; यथा—(किराता. ११.३२)
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु तेषु लोकोऽयं ननु कृत्स्‍नस्त्वया जितः॥ २९॥
३. अनाकाङ्क्षा सन्तोषः ; यथा—
सर्वाः सम्पत्तयस्तस्य विविक्तं यस्य मानसम्।
उपानद्‍गूढपादस्य ननु चर्मास्तृतैव भूः॥ ३०॥
१. सर्व = '......गा विधीय। सर्वकर्मसु' — रा.। २. तत् रा. जो.।
४. विषयव्यावृत्तिः प्रशमः ; यथा—
यदाऽऽसीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि।
← Previous (Ch. 20) Full Table of Contents Next (Ch. 22) →