ततः परं दुःप्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ । निदर्शयामास विशेषदृश्यमिन्दुं नवोत्थानमिवेन्दुमत्यै ॥
अवन्तिनाथोऽयमुदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रभ्रममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । तमिस्रपक्षेऽपि सह प्रियामिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥
अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते । सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥
सङ्ग्रामनिर्विष्टसहस्रबाहुरष्टादशद्वीपनिखातयूपः । अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः ॥
अकार्यचिन्तासमकालमेव प्रादुर्भवंश्चापधरः पुरस्तात् । अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता ॥
ज्याबन्धनिष्पन्दभुजेन यस्य विनिःश्वसद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितमा प्रसादात् ॥
तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी । येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृष्टम् ॥
आयोधने कृष्णगतिं सहायमवाप्य यः क्षत्रियकालरात्रिम् । धारां शितां रामपरश्वघस्य संभावयत्युत्पलपत्रसाराम् ॥
अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीम् । प्रासादजालैर्जलवेणिरम्यां रेवां यदि प्रेक्षितुमस्ति कामः ॥
तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव । शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः ॥
सा शूरसेनाधिपतिं सुषेणमुद्दिश्य लोकान्तरगीतकीर्तिम् । आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी ॥
नीपान्वयः पार्थिव एष यज्वा गुणैर्यमाश्रित्य परस्परेण । सिद्धाश्रमं शान्तमिवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः ॥
यस्यात्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्टा । हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविषह्यं रिपुमन्दिरेषु ॥
यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले । कलिन्दकन्या मथुरां गतापि गङ्गोर्मिसंसक्तजलेव भाति ॥
त्रस्तेन तार्क्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः । वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभ ह्नेपयतीव कृष्णम् ॥
संभाव्य र्तारममुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये । वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि! यौवनश्रीः ॥
अध्यास्य चाम्भःपृषतोक्षितानि शैलायगन्धीनि शिलातलानि । कलापिनां प्रवृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु ॥
नृपं तमावर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री । महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव ॥
अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथम् । आसेदुषीं सादितशत्रुपक्षं बालामवालेन्दुमुखीं बभाषे ॥
असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च । यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः ॥
ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः । रिपुश्रियां साञ्जनबाष्पसेके बन्दीकृतानामिव पद्धती द्वे ॥
यमात्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः । प्रासादवातायनदृश्यवीचिः प्रबोधयत्यर्णव एव सुप्तम् ॥
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥
प्रलोभिताप्याकृतिलोभनीया विदर्भराजावरजा तयैवम् । तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवात् ॥
अथोरगाख्यस्य पुरस्य नाथं दौवारिकी देवसरूपमेत्य । इतश्चकोराक्षि! विलोकयेति पूर्वानुशिष्टां निजगाद भोज्याम् ॥
पाण्ड्योऽयमंसार्पितलम्बहारः क्लृप्ताङ्गरागो हरिचन्दनेन । आभाति बाला4तपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥