Skip to main content
Search
RV
Raghuvaṁśam • Chapter 07

Canto 7

सप्तमः सर्गः (अजपाणिग्रहणम्)

Canto 7 of Raghuvaṁśam.

Total: 71 Verses • Citations: RV 7.1–71 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 7.1 उपजातिः
अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम् । स्वसोरमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ विदर्भनाथो भोजः सदृशेनोपयन्त्रा वरेण युक्ताम्। अत एव साक्षात् प्रत्यक्षम्। `साक्षात्प्रत्यक्षतुल्ययोः` इत्यमरः (अ.को.3|3|258)। स्कन्देन युक्तां देवसेनामिव। देवसेना नाम देवपुत्री स्कन्दपत्नी तामिव स्थितां स्वसारं भगिनीमुन्दुमतीमादाय गृहीत्वा पुरप्रवेशाभिमुखो बभूव। उपजातिवृत्तं सर्गेऽस्मिन् ॥
RV 7.2 इन्द्रवज्रा
सेनानिवेशान्पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः । भोज्यां प्रति व्यर्थमनोरथत्वाद्रूपेषु वेशेषु च साभ्यसूया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सेनेति॥ भोजस्य राज्ञो गोत्रापत्यं स्त्री भोज्या तामिन्दुमतीं प्रति व्यर्थमनोरथत्वाद्रूपेष्वाकृतिषु वेशेषु नेपथ्येषु च साभ्यसूया वृथेति निन्दन्तः। किंच विभाते प्रातःकाले ये ग्रहाश्चन्द्रादयस्त इव मन्दभासः क्षीणकान्तयः पृथिवीक्षितो नृपा अपि सेनानिविशान् शिबिराणि जग्मुः ॥
RV 7.3 उपजातिः
सां निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः । काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): सांनिध्येति॥ तत्र स्वयंवरक्षेत्रे शच्या इन्द्राण्या। संनिधइरेव सांनिध्यम्। तस्य योगात्सद्भावाद्धेतोः स्वयंवरस्य क्षोभकृतां विघ्नकारिणामभावः किस। `किल`इति स्वयंवरविघातकाः शच्या विनाश्यन्त इत्यागमसूचनार्थम्। तेन हेतुना काकुत्स्थमजमुद्दिश्य समत्सरोऽपि सवैरोऽपि क्षितिपाललोकः शशाम नाक्षुभ्यत् ॥
RV 7.4 उपजातिः
तावत्प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम् । वरः सवध्वा सह राजमार्गं प्राप ध्वजच्छायनिवारितोष्णम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तावदिति॥ `यावत्तावञ्च साकल्ये` इत्यमरः। तावत्प्रकीर्णा साकल्येन प्रसारिता अभिनवा नूतना उपचाराः पुष्पप्रकरादयो यस्य तं तथोक्तम्। इन्द्रायुधानीव द्योतितानि प्रकाशितानि तोरणान्यङ्काश्चिह्नानि यस्य तम्। ध्वजानां छाया ध्वजच्छायम्, `छाया बाहुल्ये` (पा.2।4।22) इति नपुंसकत्वम्। तेन निवारित उष्ण आतपो यत्र तं तथा राजमार्गं स वरो वोढावध्वा सह प्राप विवेश ॥
RV 7.5 उपजातिः
ततस्तदालोकनतत्पराणां सौधेषु चामीकरजालवत्सु । बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचिष्टितानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततस्तदनन्तरं चामीकरजालवत्सु सौवर्णगवाक्षयुक्तेषु सौधेषु तस्याजस्यालोकने तत्पराणामासक्तानां पुरसुन्दरीणामित्थं वक्ष्यमाणप्रकाराणि त्यक्तान्यन्यकार्याणि केशबन्धनादीनि येषु तानि विचेष्टितानि व्यापाराः। नपुंसके भावे क्तः। बभूवुः ॥
RV 7.6 उपजातिः
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः । बद्धुं न संभावित एव तावत्करेण रुद्धोऽपि च केशपाशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आलोकेति॥ सहसाऽऽलोकमार्गं गवाक्षपथं व्रजन्त्या कयाचित्कामिन्योद्वेष्टनवान्तमाल्यः। उद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनः। अत एव वांन्तमाल्यो बन्धविश्लेषेणोद्गीर्णमाल्यः। करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः। `पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे` इत्यमरः (अ.को.2|6|99)। तावदालोकमार्गप्राप्तिपर्यन्तं बद्धुं बन्धनार्थं न संभावितो न चिन्तित एव ॥
RV 7.7 उपजातिः
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्‌द्रवरागमेव । उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रसाधिकेति॥ काचित्। प्रसाधिकयाऽलंकर्त्र्या लम्बितं रञ्जनार्थं धृतं द्रवरागमेवार्द्रालक्तकमेव। अग्रश्चासौ पादश्चेत्यग्रपाद इति कर्मधारयसमासः। ``हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भेदाभेदाभ्याम्`(का.सू.) इति वामनः। तमाक्षिप्याकृष्य। उत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती। आ गवाक्षाद्गवाक्षपर्यन्तं पदवीं पन्थानमलक्तकाङ्कां लाक्षारागचिह्नां ततान विस्तारयामास ॥
RV 7.8 उपजातिः
विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा । तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विलोचनमिति॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालंकृत्य। संभ्रमादिति भावः। दद्वञ्चितं तेनाञ्जनेन वर्जितं वामनेत्रं यस्याः सा सती तथैव शलाकामञ्जनतूलिकां वहन्ती सती वातायनसंनिकर्षं गवाक्षसमीपं ययौ। `दक्षिण`ग्रहणं संभ्रमाद्व्युत्क्रमकरणद्योतनार्थम्। `सव्यं हि पूर्वं मनुष्या अञ्जते` इति श्रुतेः ॥
RV 7.9 इन्द्रवज्रा
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् । नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जालेति॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रेरितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वसनग्रन्थिम्। `नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि` इति विश्वः। न बबन्ध। किंतु नाभिप्रविष्टाभरणानां कङ्कणादीनां प्रभा यस्य तेन। प्रभैव नाभेराभरणमभूदिति भावः। हस्तेन वासोऽवलम्ब्य गृहीत्वा तस्थौ ॥
RV 7.10 इन्द्रवज्रा
अर्धाञ्चिता सत्वरमुत्थितायाः पदे दुर्निमिते गलन्ती । कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अर्धेति॥ सत्वरमुत्थितायाः कस्याश्चिदर्धाञ्चिता मणिभिरर्धगुम्फिता दुर्निमित्ते संभ्रमाद्दुरुत्क्षिप्ते। `डुमिञ्प्रक्षेपणे` इति धातोः कर्मणि क्तः। पदे पदे प्रतिपदम्। वीप्सायां द्विर्भावः। गलन्ती गलद्रत्ना सती रशना मेखला तदानीं गमनसमयेऽङ्गुष्ठमूलेऽर्पितं सूत्रमेव शेषो यस्याः सा। आसीत् ॥
RV 7.11 उपजातिः
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् । विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तासामिति॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्भे येषां तैः। विलोलानि नेत्राण्येव भ्रमरा येषां तैः। मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इव कमलालंकृता इव। `सहस्रपत्रं कललम्` इत्यमरः। आसन् ॥
RV 7.12 उपजातिः
ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि । तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ ता नार्यो रघारपत्यं राघवमजम्। `तस्यापत्यम्` (पा.4।1।92)इत्यण्प्रत्ययः। दृष्टिभिरापिबन्त्योऽतितृष्णया पश्यन्त्यो विषयान्तराण्यन्यान्विषयान्न जग्मुः। न विविदुरित्यर्थः। तथा हि-आसां नारीणां शेषेन्दियवृत्तिश्चक्षुर्व्यतिरिक्तश्रोत्रादीन्द्रियव्यापारः सर्वात्मना स्वरूपकार्त्स्न्येन चक्षुः प्रविष्टेव। श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु। अन्यथा स्वस्वविषयाधिगमः किं न स्यादिति भावः ॥
RV 7.13 उपजातिः
स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्या । पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्? ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स्थआन इति॥ भोज्येन्दुमती परोक्षैरदृष्टैर्भूपतिभिर्वृता `ममैवेयम्` इति प्रार्थितापि यं वरमेव साधुं हितममंस्त मेने। न तु परोक्षमेव कंचित्प्रार्थकं वव्रे। स्थाने युक्तमेतत्। `युक्ते द्वे सांप्रतं स्थाने` इत्यमरः। कुतः? अन्यथा स्वयंवराभवे। असाविन्दुमती। पद्ममस्या अस्तीति पद्मा लक्ष्मीः। `अर्शआदिभ्योऽच्` (पा.5।1।127)इत्यच्प्रत्ययः। नारायणमिव। आत्मतुल्यं स्वानुरूपं कान्तं पतिं कथं लभेत? न लभेतैव। सदसद्विवेकासौकर्यादिति भावः ॥
RV 7.14 उपजातिः
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् । अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परस्परेणेति॥ स्पृहणीयशोभं सर्वाशास्यसौन्दर्यमिदं द्वन्द्वं मिथुनम्। `द्वन्द्वं रहस्य-` (पा.8।1।15) इत्यादिना निपातः। परस्परेण नायोजयिष्यञ्चेत् न योजयेद्यदि तर्हि प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधानयत्नः सौन्दर्यनिर्माणप्रयासो वितथो विफलोऽभविष्यत्। एतादृशानुरूपस्त्रीपुंसान्तराभावादिति भावः। `लिङ्निमित्ते लृङ्क्रियातिपत्तौ` (पा.3।3।139) इति लृङ्। `कुतश्चित्कारणवैगुण्याक्रियाया अनभिनिष्पत्तिः क्रियातिपत्तिः` इति वृत्तिकारः ॥
RV 7.15 उपजातिः
रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथा हि बाला । गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसंगतिज्ञम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रतीति॥ रतिस्मरौ यौ नित्यसहचरावित्यभिप्रायः। नूनं तावेवेयं चायं चेमौ दंपती। अभूताम्। एतद्रूपेणोत्पन्नौ। कुतः? तथा हि-इयं बाला राज्ञां सहस्रेषु राजसहस्रमध्ये। सत्यपि व्यत्यासकरण इति भावः। आत्मप्रतिरूपं स्वतुल्यमेव। `तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः` इति दण्डी। गता प्राप्ता। तदपि कथं जातमत आह-हि यस्मान्मनो जन्मान्तरसंगतिज्ञं भवति। `तदेवेदम्` इति प्रत्यभिज्ञाभावेऽपि वासनाविशेषशादनुभूतार्थेषु मनः प्रवृत्तिरस्तीत्युक्तम्। जन्मान्तरसाहचर्यमेवात्र प्रवर्तकमिति भावः ॥
RV 7.16 इन्द्रवज्रा
इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन्कथाः श्रोत्रसुखाः कुमारः । उद्भासितं मह्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ इति `स्थाने वृता`(7।13) इत्याद्युक्तप्रकारेण पौरवधूमुखेभ्य उद्गता उत्पन्नाः श्रोक्षयोः सुखा मधुराः। `सुख` शब्दो विशेष्यनिघ्नः। `पापपुण्यसुखादि च` इत्यमरः। कथा गिरः शृण्वन् कुमारोऽजो मङ्गलसंविधाभिर्मङ्गलरचनाभिरुद्भासितं शोभितं-संबन्धिनः कन्यादायिनः सद्म गृहं समाससाद प्राप ॥
RV 7.17 उपजातिः
ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः । वैदर्भनिर्दिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततोऽनन्तरं करेणुकाया हस्तिन्याः सकाशादाशु शीघ्रमवतीर्य। कामरूपेश्वरे दत्तो हस्तो येन सोऽजः। अथो अनन्तरं वैदर्भेण निर्दिष्टं प्रदर्शितमन्तश्चतुष्कं चत्वरम्। नारीणां मनांसीव विवेश ॥
RV 7.18 उपजातिः
महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्ध्यं मधुपर्कमिश्रम् । भोजोपनीतं च तुकूलयुग्मं जग्राह सार्धं वनिताकटाक्षैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): महार्हेति॥ महार्हसिंहासने संस्थितोऽसावजः। भोजेनोपनीतम्। रत्नैः सहितं सरत्नम्। मधुपर्कमिश्रमर्ध्यं पूजासाधनद्रव्यं दुकूलयोः क्षौमयोर्युग्मं च वनिताकटाक्षैरन्यस्त्रीणामपाङ्गदर्शनैः सार्धम्। जग्राह गृहीतवान् ॥
RV 7.19 उपजातिः
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः । वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दुकूलेति॥ दुकूलवासाः सोऽजः विनीतैर्नम्रैरवरोधरक्षैरन्तःपुराधिकृतैर्वधूसमीपं निन्ये। तत्र दृष्टन्तः-स्फुटफेनराजिरुदन्वान् समुद्रो नवैर्नूतनैश्चन्द्रपादैश्चन्द्रकिरणैर्वेलायाः सकाशं समीपमिव। पूर्णदृष्टान्तोऽयम् ॥
RV 7.20 उपजातिः
तत्रार्चितो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः । तमेव चाधाय विवाहसाक्ष्ये वधूवरौ संगमयांचकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र सद्मन्यर्चितः पूजितोऽग्निकल्पोऽग्नितुल्यो भोजपतेर्भोजदेशाधीश्वरस्य पुरोधाः पुरोहितः। `पुरोधास्तु पुरोहितः` इत्यमरः (अ.को.2|8|5)। आज्यादिभिर्द्रव्यैरग्निं हुत्वा तमेव चाग्निं विवाहसाक्ष्य आधाय। साक्षिणं च कृत्वेत्यर्थः। वधूवरौ संगमयांचकार योजयामास ॥
RV 7.21 उपजातिः
हस्तेन हस्तं परिगृह्य वध्वाः स राजसूनुः सुतरां चकासे । अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हस्तेनेति॥ स राजसूनुर्हस्तेन स्वकीयेन वध्वा हस्तं परिगृह्य। अनन्तरायाः संनिहिताया अशोकलतायाः प्रवालं पल्लवं प्रतिपल्लवेन स्वकीयेन प्राप्य चूत आम्र इव। सुतरां चकासे ॥
RV 7.22 उपजातिः
आसीद्वरः कण्टकितप्रकोष्ठः स्वन्नाङ्गुलिः संववृते कुमारी । तस्मिन्द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आसीदिति॥ वरः कण्टकितः पुलकितः प्रकोष्ठो यस्य स आसीत्। `सीच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः` इत्यमरः। कुमारी स्विन्नाङ्गुलिः संववृते बभूव। अत्रोत्प्रेक्षते-तस्मिन्द्वये मिथुने तत्क्षणमात्मवृत्तिः सात्त्विकोदयरूपा वृत्तिर्मनोभवेन कामेन समं विभक्तेव पृथक्कृतेव। प्राक्सिद्धस्याप्यनुरागसाम्यस्य संप्रति तत्कार्यदर्शनात्पाणिस्पर्शकृतत्वमुत्प्रेक्षते। अत्र वात्स्यायनः-`कन्या तु प्रथमसमागमे स्विन्नाङ्गुलिः स्विन्नमुखी च भवति। पुरुषस्तु रोमाञ्चितो भवति। एभिरनयोर्भावं परीक्षित्।` इति। स्त्री-पुरुषयोः स्वेदरोमाञ्चाभिधानं सात्त्विकमात्रोपलक्षणम्। न तु प्रतिनियमो विवक्षितः; `एभिः` इति बहुवचनसामर्थ्यात्। एवं सति कुरामसंभवे(7।77)-`रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुंगवकेतुरासीत्` इति व्युत्क्रमवचनं न दोषायेति। `वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य `इत्यपरार्धस्य पाठान्तरे व्याख्यानान्तरम्-पाणिसमागमेन पाण्योः संस्पर्शेन कर्त्रा तयोर्वधूवरयोर्मनोभवस्य वृत्तिः स्थितिः समं विभक्तेव। समीकृतेवेत्यर्थः ॥
RV 7.23 उपजातिः
तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिनिवर्तितानि । ह्रीयन्त्रणामानशिरे मनोज्ञामन्योन्यलोलानि विलोचनानि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तयोरिति॥ अपाङ्गेषु नेत्रप्रान्तेषु प्रतिसारितानि प्रवर्तितानि क्रिययोर्निरीक्षणलक्षणयोः समापत्त्या यदृच्छासंगत्या निवर्तितानि प्रत्याकृष्टान्यन्योन्यस्मिंल्लोलानि सतृष्णानि। `लोलश्चलसतृष्णयोः` इत्यमरः (अ.को.3|3|214)। तयोर्दंपत्योर्विलोचनानि दृष्टयो मनोज्ञां रम्यां ह्रिया निमित्तेन यन्त्रणां संकोचमानशिरे प्रापुः ॥
RV 7.24 उपजातिः
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे । मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रदक्षिणेति॥ तन्मिथुनमुदर्चिष उन्नतज्वालस्य कृशानोर्वह्नेः प्रदक्षिणप्रक्रमणात् प्रदक्षिणीकरणात्। मेरोरुपान्तेषु समीपेषु वर्तमानमावर्तमानम्। मेरुं प्रदक्षिणीकुर्वदित्यर्थः। अन्योन्यसंसक्तं परस्परसंगतम्। मिथुनस्याप्येतद्विशेषणम्। अहश्च त्रियामा चाहस्त्रियामं रात्रिंदिवमिव। समाहारे द्वन्दैकवद्भावः। चकासे दिदीपे ॥
RV 7.25 उपजातिः
नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नितम्बेति॥ नितम्बेन गुर्व्यलघ्वी। `दुर्धरालघुनोर्गुर्वी` इति शाश्वतः। विधातृप्रतिमेन ब्रह्मतुल्येन तेन गुरुणा याचकेन प्रयुक्ता `जुहुधि` इति नियुक्ता। मत्तचकोरस्येव नेत्रे यस्याः सा वधूः। अग्नौ लाजविसर्गं चकार ॥
RV 7.26 उपजातिः
हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः । कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): हविरिति॥ हविष आज्यादेः शमीपल्लवानां लाजानां च गन्धोऽस्यास्तीति हविः-शमीपल्लवलाजगन्धी। `शमीपल्लवमिश्राँल्लाजानञ्जलिना वपति` इति कात्यायनः। पुण्यो धूमः कृशानोः पावकादुदियायोद्धूतः। कपोलयोः संसर्पिणी प्रसहरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां कर्णाभरणतां प्रपेदे ॥
RV 7.27 उपजातिः
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् । वधूमुखं पाटलगन्डलेखमाचारधूमग्रहणाद्बभूव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तदिति॥ तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात्। अञ्जनस्य क्लेदोऽञ्जनक्लेदः। अञ्जनभिश्रबाष्पोदकमित्यर्थः। तेन समाकुलाक्षम्। प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत् पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ॥
RV 7.28 उपजातिः
तौ त्नातकैर्बन्धुमता च राज्ञा पुरंध्रिभिश्च क्रमशः प्रयुक्तम् । कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताविति॥ कनकासनस्थौ तौ क्याकुमारौ स्नातकैर्गृहस्थविशेषैः। `स्नातकस्त्वाप्लुतो व्रती` इत्यमरः (अ.को.2|7|47)। बन्धुमता। बन्धुपुरः सरेणेत्यर्थः। राज्ञा च पुरंध्रिभिः पतिपुत्रवतीभिर्नारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्द्राक्षतानामारोपणमन्वभूतामनुभूतवन्तौ ॥
RV 7.29 उपजातिः
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा । महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानधिश्रीः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): इतीति॥ अधिश्रीरधिकसंपन्नो भोजकुलप्रदीपः स राजा। इति स्वसुरिन्दुमत्याः पाणिग्रहणं विवाहं संपाद्य कारयित्वा। महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं पूजार्थमधिकृतानधिकारिणः समादि देशाज्ञापयामास ॥
RV 7.30 उपजातिः
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्ताः । वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): लिङ्गैरिति॥ मुदः संतोषस्य लिङ्गैश्चिह्नैः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः। अत एव प्रसन्ना बहिर्निर्मला गूढनक्रा अन्तर्लीनग्राहा ह्रदा इव स्थइतास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छय तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ॥
← Previous (Ch. 6) Full Table of Contents Next (Ch. 8) →