Skip to main content
Search
RV
Raghuvaṁśam • Chapter 06

Canto 6

षष्ठः सर्गः (स्वयंवरवर्णनम्)

Canto 6 of Raghuvaṁśam.

Total: 86 Verses • Citations: RV 6.1–86 • 1 Lexicon Terms • Page 1 of 3 (Verses 30 shown)
RV 6.1 इन्द्रवज्रा
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु । वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। मरुताममराणाम्। `मरुतौ पवनामरौ` इत्यमरः (अ.को.3|3|66)। आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ॥
RV 6.2 उपजातिः
रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गमिवेश्वरेण । काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): रतेरिति॥ `रतिः स्मरप्रियायां च रागे च सुरते स्मृता` इति विश्वः। रतेः कामप्रियाया गृहीतानुनयेन स्वीकृतप्रार्थनेन। गृहीतरत्यनुनयेनेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। ईश्वरेण हरेण प्रत्यर्पितस्वाङ्गं काममिव स्थितं काकुत्स्थमजमालोकयतां नृपाणां मन इन्दुमतीनिराशं वैदर्भीनिःस्पृहं बभूव, `इन्दुमती सत्पतिमेनं विहाय नास्मान्वरिष्यति` इति निश्चिक्युरित्यर्थः। सर्वातिशयसौन्दर्यं मत्वेति भावः ॥
RV 6.3 उपजातिः
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वैदर्भेति॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लप्तेन सुविहितेन सोपानपथेन। मृगराजशावः सिंहपोतः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। शिलानां विभङ्गैर्भङ्गीस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव। आरुरोह ॥
RV 6.4 उपजातिः
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): परार्ध्येति॥ परार्धअयाः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनापपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्टितवान् सोऽजः। मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह। `सेनानीरग्निभूर्गुहः` इत्यमरः (अ.को.1|1|49)। भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत्। मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपगीति भावः ॥
RV 6.5 उपजातिः
तासु श्रिया राजपरम्परासु प्रभाविशेषोदयदुर्निरीक्ष्यः । सहस्रधात्मा व्यरुचद्विभक्तः पयोमुचां पङ्क्तिषु विद्युतेव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तास्विति॥ तासु राजपरम्परासु श्रिया लक्ष्म्या कार्त्र्या पयोमुचां मेघानां पङ्क्तिषु विद्युतेव सहस्रधा विभक्तः। तरंगेषु तरणिरिव स्वयमेक एव प्रत्येकं संक्रामित इत्यर्थः। प्रभाविशेषस्योदयेनाविर्भावेन दुर्निरीक्ष्यो दुर्दर्शन आत्मा श्रियः स्वरूपं व्यरुचद्व्यद्योतिष्ट। `द्युद्भ्यो लुङि` (पा.1।3।91) इति परस्मैपदम्। द्युतादित्वादङ्प्रत्ययः। तस्मिन्समये प्रत्येकं संक्रांन्तलक्ष्मीकतया तेषां किमपि दुरासदं तेजः प्रादुरासीदित्यर्थः ॥
RV 6.6 उपजातिः
तेषां महार्हासनसंस्थितानामुदारनेपथ्यभृतां स मध्ये । रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणामिव पारिजातः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तेषामिति॥ महार्हासनसंस्थितानां श्रेष्ठसिंहासनस्थानाम्। उदारनेपथ्यभृतामुज्ज्वलवेषधारिणां तेषां राज्ञां मध्ये। कल्पद्रुमाणां मध्ये पारिजात इव सुरद्रुमविशेष इव। `पञ्चैते देवतरवो मन्दारः पारिजातकः। संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्॥` इत्यमरः। स रघुसूनुरेव धाम्ना तेजसा। `भूम्ना` इति पाठेऽतिशयेनेत्यर्थः। रराज। अत्र `कल्पद्रुम`शब्दः पञ्चान्यतमविशेषवचनः। उपकल्पयन्ति मनोरथानिति व्युत्पत्त्या सुरद्रुममात्रोपलक्षकतया प्रयुक्त इत्यनुसंधेयम्। कल्पा इति द्रुमाः कल्पद्रुमा इति विग्रहः ॥
RV 6.7 उपजातिः
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): नेत्रेति॥ पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः। स एव सर्वोत्कर्षेण ददृश इत्यर्थः। कथमिव? मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे। रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः। द्विरेफा भृङ्गा इव। द्विपस्य `वन्य` विशेषणै द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ॥
RV 6.8 उपजातिः
अथ स्तुते बन्दिभिरन्वयज्ञैः सोमार्कवंश्ये नरदेवलोके । संचारिते चागुरुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथान्वयज्ञै राजवंशाभिज्ञैर्बन्दिभिः स्तुतिपाठकैः। `बन्दिनः स्तुतिपाठकाः` इत्यमरः (अ.को.2|8|97)। सोमार्कवंश्ये सोमसूर्यवंशभवे नरदेवलोके राजसमूहे स्तुते सति। विवेशेत्युत्तरेण संबन्धः। एवमुत्तरत्रापि योज्यम्। संचारिते समन्तात्प्रचारिते। अगुरुंसारो योनिः कारणं यस्य तस्मिन् धूपे च वैजयन्तीः पताकाः समुत्सर्पति सति अतिक्रम्य गच्छति सति ॥
RV 6.9 उपजातिः
पुरोपकण्ठोपवनाश्रयाणां कलापिनामुद्धतनृत्यहेतौ । प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्च्छति मङ्गलार्थे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पुरोपकण्ठेति॥ किंच, पुरस्योपकण्ठे समीप उपवनान्याश्रयो येषां तेषां कलापिनां बर्हिणामुद्धतनृत्यहेतौ मेघध्वनिसादृश्यात्ताण्डवकारणे। प्रध्माताः पूरिताः शङ्खा यत्र तस्मिन्। मङ्गलार्थे मङ्गलप्रयोजनके । तूर्यस्वने वाद्यघोषे। परितः सर्वतो दिगन्तान्मूर्च्छति व्याप्नुवति सति ॥
RV 6.10 उपजातिः
मनुष्यवाह्यं चतुरस्रयानमध्यास्य कन्या परिवारशोभि । विवेश मञ्चान्तरराजमार्गं पतिंवरा क्लृप्तविवाहवेषा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मनुष्येति॥ पतिं वृणोतीति पतिंवरा स्वयंवरा। `अथ स्वयंवरा। पतिंवरा च वर्याथ` इत्यमरः। `संज्ञायां भृतॄवृजि-` (पा.3।2।46) इत्यादिना खच्प्रत्ययः। क्लृप्तविवाहवेषा कन्येन्दुमती मनुष्यैर्वाह्यं परिवारेण परिजनेन शोभि चतुरस्रयानं चतुरस्रवाहनं शिबिकामध्यास्यारुह्य मञ्चान्तरे मञ्चमध्ये यो राजमार्गस्तं वेवेश ॥
RV 6.11 उपजातिः
तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये । निपेतुरन्तः करणैर्नरेन्द्रा देहैः स्थिताः केवलमासनेषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ नेत्रशतानामेकलक्ष्य एकदृश्ये कन्यामये कन्यारूपे तस्मिन्विधातुर्विधानातिशये सृष्टिविशेषे नरेन्द्रा अन्तःकरणैर्निपेतुः। आसनेषु देहैः केवलं देहैरेव स्थिताः। देहानपि विस्मृत्य तत्रैव दत्तचित्ता बभूवुरित्यर्थः। अन्तःकरणकर्तृके निपतने नरेन्द्राणां कर्तृत्वव्यपदेश आदरातिशयार्थः ॥
RV 6.12 उपजातिः
तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः । प्रवालशोभा इव पादपानां श्रृङ्गारचेष्टा विविधा बभूवुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ तामिन्दुमतीं प्रति। अभिव्यक्तमनोरथानां प्ररूढाभिलाषाणां महीपतीनां राज्ञां प्रणयाग्रदूत्यः। प्रणयः प्रार्थना प्रेम वा। `प्रणयास्त्वमी। विस्रम्भयाच्ञाप्रेमाणः` इत्यमरः। प्रणयेष्वग्रदूत्यः प्रथमदूतिकाः। प्रणयप्रकाशकत्वसाम्याद्दूतीत्वव्यपदेशः। विविधाः श्रृङ्गारचेष्टाः शृङ्गारविकारः पादपानां प्रवालशोभाः पल्लवसंपद इव बभूवुरुत्पन्नाः। अत्र शृङ्गारलक्षणं रससुधाकरे-`विभावैरनुभावैश्च स्वोचितैर्व्यभिचारिभिः। नीता सदस्यरस्यत्वं रतिः शृङ्गार उच्यते ॥`रतिरिच्छाविशेषः। तञ्चोक्तं तत्रैव-`यूनोरन्योन्यविषयस्थायिनीच्छा रतिः स्मृता` इति॥ `चेष्टा`शब्देन तदनुभावविशेषा उच्यन्ते। तेऽपि तत्रैवोक्ताः-`भावं मनोगतं साक्षात्स्वहेतुं व्यञ्जयन्ति ये। तेऽनुभावा इति ख्याता भ्रूविक्षेपस्मितादयः। ते चतुर्धा चित्तगात्रवाग्बुद्ध्यारम्भसंभवाः॥` इति। तत्र गात्रारम्भसंभवांश्चेष्टाशब्दोक्ताननुभावान् `कश्चित्`(6।13) इत्यादिभिः श्लोकैर्वक्ष्यति। शृङ्गाराभासश्चायम्; एकत्रैव प्रतिपादनात्। तदुक्तम्-`एकत्रैवानुरागश्चेत्तिर्यक्शब्दगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः॥` इति ॥
RV 6.13 उपजातिः
कश्चित्कराभ्यामुपगूढनालमालोलपत्राभिहतद्विरेफम् । रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयांचकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कश्चिदिति॥ कश्चिद्राजा कराभ्यां पाणिभ्यामुपगूढनालं गृहीतनालम्। आलोलैश्चञ्चलैः पत्रैरभिहततास्ताडिता द्विरेफा भ्रमरा येन तत्तथोक्तम्। रजोभिः परगैरन्तः परिवेषं मण्डलं बध्नातीत्यन्तः परिवेषबन्धि। लीलारविन्दं भ्रमयांचकार। `करस्थलीलारविन्दवत्त्वयाऽहं भ्रमयितव्यः` इति-नृपाभिप्रायः। `हस्तघूर्णकोऽयमपलक्षणकः`-इतीन्दुमत्यभिप्रायः ॥
RV 6.14 उपजातिः
विस्रस्तमंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नम् । प्रालम्बमुत्कृष्य यथावकाशं निनाय साचीकृतचारुवक्त्रः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विस्रस्तमिति॥ विलसनशीलो विलासी। `वौ कषलसकत्थस्रम्भः` (पा.3।2।143) इति घिनुण्प्रत्ययः। अपरो राजा । अंसाद्विस्रस्तं रत्नानुविद्धं रत्नखचितं यदङ्गदं केयूरं तस्य कोटिलग्नं प्रालम्ब मृजुलम्बिनीं स्रजम्। `प्रालम्बमृजुलम्बि स्यात्कण्ठात्` इत्यमरः (अ.को.2|6|137)। `प्रावारम्` इति पाठे तूत्तरीयं वस्त्रम्। उत्कृष्योद्धृत्य साचीकृतं तिर्यक्कृतं चारु वक्त्रं यस्य स तथोक्तः सन्, यथावकाशं स्वस्थानं निनाय। `प्रावारोत्क्षेपणच्छलेनाहं त्वामेवं परिरप्स्ये`- इति नृपाभिप्रायः। `गोपनीयं किंचिदङ्गेऽस्ति ततोऽयं प्रावृणुते`-इतीन्दुमत्यभिप्रायः ॥
RV 6.15 इन्द्रवज्रा
आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः । तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आकुञ्चितेति॥ ततः पूर्वोक्तादन्योऽपरो राजा किंचित्समावर्जितनेत्रशोभ ईषदर्वाक्पातितनेत्रशोभः सन्। आकुञ्चिता आभुग्रा अग्राङ्गुलयो यस्य तेन तिर्यग्विसंसर्पिण्यो नखप्रभा यस्य तेन च पादेन हैमं हिरण्मयं पीठं पादपीठं विलिलेख लिखितवान्। पादाङ्गुलीनामाकुञ्चनेन `त्वं मत्समीपमागच्छ`-इति नृपभिप्रायः। `भूमिविलेखकोऽयमपलक्षणकः`-इतीन्दुमत्याशयः। भूमिविलेखनं तु लक्ष्मीविनाशहेतुः ॥
RV 6.16 उपजातिः
निवेश्य वामं भुजमासनार्धे तत्संनिवेशादधिकोन्नतांसः । कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निवेश्येति॥ कश्चिद्राजा वामं भुजमासनार्धे सिंहासनैकदेशे निवेश्य संस्थाप्य तत्संनिवेशात्तस्य वामभुजस्य संनिवेशात्संस्थापनादधिकोन्नतोंऽसो वामांस एव यस्य स तथोक्तः सन्। विवृत्ते परावृत्ते त्रिके त्रिकप्रदेशे भिन्नहारो लुण्ठितहारः सन्। `पृष्ठवंशाधरे त्रिकम्` इत्यमरः (अ.को.2|6|77)। सुहृत्समाभाषणतत्परोऽभूत्। वामपार्श्ववर्तिनैव मित्रेण संभाषितुं प्रवृत्त इत्यर्थः। अत एव विवृत्तत्रिकत्वं घटते। `त्वया वामाङ्गे निवेशितया सहैवं वार्तां करिष्ये`-इति नृपाभिप्रायः। परं `दृष्ट्वा पराङ्मुखोऽयं न कार्यकर्ता`- इतीन्दुमत्यभिप्रायः ॥
RV 6.17 उपजातिः
विलालिनीविभ्रमदन्तपत्रमापाण्डुरं केतकबर्हमन्यः । प्रियानितम्बोचितसंनिवेशैर्विपाटयामास युवा नखाग्रैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): विलासिनीति॥ अन्यो युवा विलासिन्याः प्रियाया विभ्रमार्थं दन्तपत्रं दन्तपत्रभूतमापाण्डुरं केतकबर्हं केतकदलम्। `दलेऽपि बर्हम्` इत्यमरः (अ.को.3|3|251)। प्रियानितम्ब उचितसंनिवेशैरभ्यस्तनिक्षघेपणैर्नखाग्रैर्विपाटयामास। `अहं तव नितम्ब एवं नखव्रणादीन्दास्यामि`- इति नृपाशयः। `तृणच्छेदकवत् पत्रपाटकोऽयमपलक्षणकः`-इतीन्दुमत्याशयः ॥
RV 6.18 उपजातिः
कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन । रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयामास सलीलमक्षान् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कुशेशयेति॥ कश्चिद्राजा कुशेशयं शतपत्रमिवाताम्रं तलं यस्य तेन। `शतपत्रं कुशेशयम्` इत्यमरः (अ.को.1|10|40)। रेखारूपो ध्वजो लाञ्छनं यस्य तेन करेण। अङ्गुलिषु भवान्यङ्गुलीयान्यूर्मिकाः। `अङ्गुलीयकमूर्मिका` इत्यमरः (अ.को.2|6|108)। `जिह्वामूलाङ्गुलेश्छः` (पा.4।3।62) इति छप्रत्ययः। रत्नानामङ्गुलीयानि तेषां प्रभयाऽनुविद्धान् व्याप्तानक्षान् पाशान्। `अक्षास्तु देवनाः पाशकाश्च ते` इत्यमरः (अ.को.1|10|40)। सलीलमुदीरयामासोञ्चिक्षेप। `अहं त्वया सहैवं रंस्ये`-इति नृपाभिप्रायः। `अक्षचातुर्ये कापुरुषोऽयम्-` इतीन्दुमत्यभिप्रायः। `अक्षार्मा दीव्यः` इति श्रुतिनिषेधात् ॥
RV 6.19 उपजातिः
कश्चिद्यथाभागमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव । वज्रांशुगर्भाङ्गुलिरन्ध्रमेकं व्यापारयामास करं किरीटे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): कश्चिदिति॥ कश्चिद्यथाभागं यथास्थानमवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव स्वस्थानाञ्चलित इव किरीटे वज्राणां किरीटगतानामंशवो गर्भे येषां तान्यङ्गुलिरन्ध्राणि यस्य तमेकं करं व्यापारयामास। `किरीटवन्मम शिरसि स्थितामपि त्वां भारं न मन्ये`- इति नृपाभिप्रायः। `शिरसि न्यस्तहस्तोऽयमपलक्षणः`-इतीन्दुमत्यभिप्रायः ॥
RV 6.20 उपजातिः
ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी । प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीमवदत्सुनन्दा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततोऽनन्तरं नृपाणां श्रुतवृत्तवंशा। श्रुतवृत्तावंशेत्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। प्रगल्भा वाग्मिनी सुनन्दा सुनन्दाख्या प्रतिहारं रक्षतीति प्रतिहाररक्षी द्वारपालिका। कर्मण्यण्प्रत्ययः। `टिड्ढाणञ्-` (पा.4।1।15) इत्यादिना ङीप्। प्राक् प्रथमं कुमारीमिन्दुमतीं मगधेश्वरस्य संनिकर्षं समीपं नीत्वा पुंवत् पुंसा तुल्यम्। `तेन तुल्यं क्रिया चेद्वतिः` (पा.5।1।115) इति वतिप्रत्ययः। अवदत् ॥
RV 6.21 उपजातिः
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असौ राजा। `असौ` इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः` इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। `प्रतिष्ठाकृत्यमास्पदम्` इत्यमरः (अ.को.3|3|101)। प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा, -प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। `द्विषत्परयोस्तापेः` (पा.3।2।39)। इति खच्प्रत्ययः। `खचि ह्रस्वः` (पा.6।4।94) इति ह्रस्वः। `अरुर्द्विषदजन्तस्य मुम्` (पा.6।3।67)इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ॥
RV 6.22 इन्द्रवज्रा
कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम् । नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): काममिति॥ अन्ये नृपाः कामं सहस्रशः सन्तु। भूमिमनेन राजन्वतीं शोभनराजवतीमाहुः। नैतादृक्कश्चिदस्तीत्यर्थः। `सुराज्ञि देशे राजन्वान्स्यात्ततोऽन्यत्र राजवान्` इत्यमरः (अ.को.2|1|14)। `राजन्वान्सौराज्ये` (पा.8।2।14) इति निपातनात्साधुः। तथा हि - नक्षत्रैरश्विन्यादिभिस्ताराभिः साधारणैर्ज्योतिर्भिर्ग्रहैर्भौमादिभिश्च संकुलाऽपि रात्रिश्चन्द्रमसैव ज्योतिरस्या अस्तीति ज्योतिष्मती। नान्येन ज्योतिषेत्यर्थः ॥
RV 6.23 इन्द्रवज्रा
क्रियाप्रबन्धादयमध्वराणामजस्रमाहूतसस्रनेत्रः । शच्याश्चिरं पाण्डुकपोललम्बान्मन्दारशून्यानलकांश्चकार ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): क्रियेति॥ अयं परंतपोऽध्वराणां क्रतूनां क्रियाप्रबन्धादनुष्ठानसातत्यात्, अविच्छिन्नादनुष्ठानादित्यर्थः। अजस्रं नित्यमाहूतसहस्रनेत्रः सन्, चिरं शच्या अलकान् पाण्डुकपोलयोर्लम्बान्स्रस्तान्। पचाद्यच्। मन्दारैः कल्पद्रुमकुसुमैः शून्यांश्चकार। प्रोषितभर्तृका हि केशसंस्कारं न कुर्वन्ति। `प्रोषिते मलिना कृशा` इति `क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम्। हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका॥` (याज्ञ.1।3।84) इति च स्मरणात् ॥
RV 6.24 उपजातिः
अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे । प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ वरेण्येन वरणीयेन। वृणोतेरौणादिक एण्यप्रत्ययः। अनेन राज्ञा गृह्यमाणं पाणिमिच्छसि चेत्। पाणिग्रहणमिच्छसि चेदित्यर्थः। प्रवेशे प्रवेशकाले प्रासादवातायनसंश्रितानां राजभवनगवाक्षस्थितानां पुष्पपुराङ्गनानां पाटलिपुराङ्गनानां नेत्रोत्सवं कुरु। सर्वोत्तमानां तासामपि दर्शनीया भविष्यसीति भावः ॥
RV 6.25 उपजातिः
एवं तयोक्ते तमवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला । क्रजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनमभाषमाणा ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवं तया सुनन्दयोक्ते सति तं परंतपमवेक्ष्य किंचिद्विस्रंसिनी दूर्वाङ्का दूर्वाचिह्ना मधूकमाला गुहपुष्पमाला यस्याः सा। `मधूके तु गुडपुष्पमधुद्रुमौ` इत्यमरः (अ.को.2|4|27)। वरेण शिथिलप्रयत्नेति भावः। तन्वीन्दुमती। एनं नृमभाषमाणम्। ऋज्व्या भावशून्यया प्रणामक्रिययैव प्रत्यादिदेश परिजहार ॥
RV 6.26 उपजातिः
तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय । समीरणोत्थेव तरंगलेखा पद्मान्तरं मानसराजहंसीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ सैव नान्या। चित्तज्ञत्वादिति भावः। वेत्रग्रहणे नियुक्ता दौवारिकी सुनन्दा तां राजसुतां राजान्तरमन्यराजानं निनाय। नयतिर्द्विकर्मकः। कथमिव? समीरणोत्था वातोत्पन्ना तरंगलेखोर्मिपङ्क्तिर्मानसे सरसि या राजहंसी तां पद्मान्तरमिव ॥
RV 6.27 उपजातिः
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): जगादेति॥ एनामिन्दुमतीं जगाद। किमिति? अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः। पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरागामिनमकामयन्ताप्सरस इति प्रसिद्धिः। किंच, सूत्रकारैर्गजशास्त्रकृद्भिः पालकाप्यादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। `किल` इत्यैतिह्ये। अत एव भूमिगतोऽप्यैन्द्रं भुङ्क्ते। भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वं `ऐन्द्रपद`शब्दार्थः। पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृते भुवि संप्रदायं प्रावर्तयदिति कथा गीयते ॥
RV 6.28 उपजातिः
अनेन पर्यासयताश्रुबिन्दून्मुक्ताफलस्थूलतमान्स्तनेषु । प्रत्यर्पिताः शत्रुविलासिनीनामुन्मुच्य सूत्रेण विनैव हाराः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ शत्रुविलासिनीनां स्तनेषु मुक्ताफलस्थूलतमानश्रुबिन्दून्। `अस्रमश्रुणि शोणिते` इति विश्वः। प्रयासयता प्रस्तारयता। भर्तृवधादिति भावः। अनेनाङ्गनाथेनोन्मुच्याक्षिप्य सूत्रेण विना हारा एव प्रत्यर्पिताः। अविच्छइन्नाश्रुबिन्दुप्रवर्तनादुत्सूत्रहारार्पणमेव कृतमिवेत्युत्प्रेक्षा गम्यते ॥
RV 6.29 उपजातिः
निसर्गभिन्नास्पदमेकसंस्थमस्मिन्द्वयं श्रीश्च सरस्वती च । कान्त्या गिरा सूनृतया च योग्या त्वमेव कल्याणि! तयोस्तृतीया ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): निसर्गेति॥ निसर्गतः स्वभावतो भिन्नास्पदं भिन्नाश्रयम्। सहावस्थानविरोधीत्यर्थः। श्रीश्च सरस्वती चेति द्वयमस्मिन्नङ्गनाथ एकत्र संस्था स्थितिर्यस्य तदेकसंस्थम्। उभयमिह संगतमित्यर्थः। हे कल्याणि!`बाह्वादिभ्यश्च` (पा.4।1।96) इति ङीप्। कान्त्या सूनृतया सत्यप्रियया गिरा च योग्या संसर्गार्हा त्वमेव तयोः श्रीसरस्वत्यो स्तृतीया। समानगुणयोर्युवयोर्दांपत्यं युज्यत एवेति भावः। दक्षिणनायकत्वं चास्य ध्वन्यते-तदुक्तम्-`तुल्योऽनेकत्र दक्षिणः` इति ॥
RV 6.30 उपजातिः
अथाङ्गराजादवतार्य चक्षुर्याहीति जन्यामवदत्कुमारी । नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अथेति॥ अथ कुमार्यङ्गराजाञ्चक्षुरवतार्य। अपनीयेत्यर्थः। जन्यां मातृसखीम्। `जन्या मातृसखीमुदोः` इति विश्वः। सुनन्दां याहि गच्छेत्यवदत्। `यातेति जन्यानवदत्` इति पाठे-जनीं वधूं वहन्तीति जन्या वधूबन्धवः। तान्यात गच्छतेत्यवदत्। `जन्यो वरवधूज्ञातिप्रियतुल्यहिते।ञपि च` इति विश्वः। अथवा, -जन्या वधूभृत्याः। `भृत्याश्चापि नवोढायाः` इति केशवः। `संज्ञायां जन्या` (पा.4।4।82) इति यत्प्रत्ययान्ते निपातः। यदत्राह वृत्तिकारः-`जनीं वधूं वहन्तीति जन्या जामातुर्वयस्याः` इति। यञ्चामरः-`जन्याः स्निग्धा वरस्य ये` इति। तत्सर्वमुपलक्षणार्थमित्यविरोधः। न चायमङ्गराजनिषेधो दृश्यदोषान्नापि द्रष्टृदोषादित्याह-नेत्यादिना॥ असावङ्गराजः काम्यः कमनीयो नेति न, किंतु काम्य एवेत्यर्थः। सा कुमारी च सम्यग्द्रष्टुं विवेक्तुं न वेदेति न, वेदेत्यर्थः। लोको जनो भिन्नरुचिर्हि रुचिरमपि किंचित्कस्मैचिन्न रोचते। किं कुर्मो न हीच्छा नियन्तुं शक्यत इति भावः ॥
← Previous (Ch. 5) Full Table of Contents Next (Ch. 7) →