Skip to main content
Search
Full Chapter
RV • Chapter 6: Canto 6

RV 6.4

Canonical Ref: RV 6.4
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
परार्ध्यवर्णास्तरणोपपन्नमासेदिवान्रत्नवदासनं सः । भूयिष्ठमासीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): परार्ध्येति॥ परार्धअयाः श्रेष्ठा वर्णा नीलपीतादयो यस्य तेनास्तरणेन कम्बलादिनापपन्नं संगतं रत्नवद्रत्नखचितमासनं सिंहासनमासेदिवानधिष्टितवान् सोऽजः। मयूरपृष्ठाश्रयिणा गुहेन सेनान्या सह। `सेनानीरग्निभूर्गुहः` इत्यमरः (अ.को.1|1|49)। भूयिष्ठमत्यर्थमुपमेयकान्तिरासीत्। मयूरस्य विचित्ररूपत्वात्तत्साम्यं रत्नासनस्य, तद्द्वारा च तदारूढयोरपगीति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.3) All Verses in Chapter 6 Next Verse (RV 6.5) →