Skip to main content
Search
Full Chapter
RV • Chapter 6: Canto 6

RV 6.3

Canonical Ref: RV 6.3
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
वैदर्भनिर्दिष्टमसौ कुमारः क्लृप्तेन सोपानपथेन मञ्चम् । शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गमिवारुरोह ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): वैदर्भेति॥ असौ कुमारो वैदर्भेण भोजेन निर्दिष्टं प्रदर्शितं मञ्चं पर्यङ्कं क्लप्तेन सुविहितेन सोपानपथेन। मृगराजशावः सिंहपोतः। `पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः` इत्यमरः (अ.को.2|5|40)। शिलानां विभङ्गैर्भङ्गीस्तुङ्गमुन्नतं नगोत्सङ्गं शैलाग्रमिव। आरुरोह ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.2) All Verses in Chapter 6 Next Verse (RV 6.4) →