Skip to main content
Search
Ch. 6 RV 6.27
Full Chapter
RV • Chapter 6: Canto 6

RV 6.27

Canonical Ref: RV 6.27
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
जगाद चैनामयमङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः । विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): जगादेति॥ एनामिन्दुमतीं जगाद। किमिति? अयमङ्गनाथोऽङ्गदेशाधीश्वरः सुराङ्गनाभिः प्रार्थिता कामिता यौवनश्रीर्यस्य स तथोक्तः। पुरा किलैनमिन्द्रसाहाय्यार्थमिन्द्रपुरागामिनमकामयन्ताप्सरस इति प्रसिद्धिः। किंच, सूत्रकारैर्गजशास्त्रकृद्भिः पालकाप्यादिभिर्महर्षिभिर्विनीतनागः शिक्षितगजः। `किल` इत्यैतिह्ये। अत एव भूमिगतोऽप्यैन्द्रं भुङ्क्ते। भूर्लोक एव स्वर्गसुखमनुभवतीत्यर्थः। गजाप्सरोदेवर्षिसेव्यत्वं `ऐन्द्रपद`शब्दार्थः। पुरा किल कुतश्चिच्छापकारणाद्भुवमवतीर्णं दिग्गजवर्गमालोक्य स्वयमशक्तेरिन्द्राभ्यनुज्ञयानीतैर्देवर्षिभिः प्रणीतेन शास्त्रेण गजान्वशीकृते भुवि संप्रदायं प्रावर्तयदिति कथा गीयते ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.27. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.26) All Verses in Chapter 6 Next Verse (RV 6.28) →