Skip to main content
Search
Full Chapter
RV • Chapter 6: Canto 6

RV 6.1

Canonical Ref: RV 6.1
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
स तत्र मञ्चेषु मनोज्ञवेषान्सिंहानस्थानुपचारवत्सु । वैमानिकानां मरुतामपश्यदाकृष्टलीलान्नरलोकपालान् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽजस्तत्र स्थान उपचारवत्सु राजोपकरणवत्सु मञ्चेषु पर्यङ्केषु सिंहासनस्थान् मनोज्ञवेषान् मनोहरनेपथ्यान् वैमानिकानां विमानैश्चरताम्। `चरति` (पा.4।4।8) इति ठक्प्रत्ययः। मरुताममराणाम्। `मरुतौ पवनामरौ` इत्यमरः (अ.को.3|3|66)। आकृष्टलीलान् गृहीतसौभाग्यान्। आकृष्टमरुल्लीलानित्यर्थः। सापेक्षत्वेऽपि गमकत्वात्समासः। नरलोकं पालयन्तीति नरलोकपालाः। कर्मण्यण्प्रत्ययः। तान्भूपालानपश्यत्। सर्गेऽस्मिन्नुपजातिश्छन्दः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 5.76) All Verses in Chapter 6 Next Verse (RV 6.2) →