Skip to main content
Search
Ch. 6 RV 6.21
Full Chapter
RV • Chapter 6: Canto 6

RV 6.21

Canonical Ref: RV 6.21
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
असौ शरण्यः शरणोन्मुखानामगाधसत्त्वो मगधप्रतिष्ठः । राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असौ राजा। `असौ` इति पुरोवर्तिनो निर्देशः। एवमुत्तरत्रापि द्रष्टव्यम्। शरणोन्मुखानां शरणार्थिनां शरण्यः शरणे रक्षणे साधुः। इति यत्प्रत्ययः। शरणं भवितुमर्हः शरण्य इति-नाथनिरुक्तिर्निर्मूलैव। अगाधसत्त्वो गम्भीरस्वभावः। `सत्त्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः` इति विश्वः। मगधा जनपदाः, तेषु प्रतिष्ठास्पदं यस्य स मगधप्रतिष्ठः। `प्रतिष्ठाकृत्यमास्पदम्` इत्यमरः (अ.को.3|3|101)। प्रजारञ्जने लब्धवर्णो विचक्षणः। यद्वा, -प्रजारञ्जनेन लब्धोत्कर्षः। पराञ्शत्रूंस्तापयतीति परंतपः परंतपाख्यः। `द्विषत्परयोस्तापेः` (पा.3।2।39)। इति खच्प्रत्ययः। `खचि ह्रस्वः` (पा.6।4।94) इति ह्रस्वः। `अरुर्द्विषदजन्तस्य मुम्` (पा.6।3।67)इति मुमागमः। नामेति प्रसिद्धौ। यथार्थनामा। शत्रुसंतापनादिति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.20) All Verses in Chapter 6 Next Verse (RV 6.22) →