Skip to main content
Search
Full Chapter
RV • Chapter 6: Canto 6

RV 6.7

Canonical Ref: RV 6.7
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः । मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): नेत्रेति॥ पौरजनस्य नेत्रव्रजाः सर्वान्नृपतीन्विहाय तस्मिन्नजे निपेतुः। स एव सर्वोत्कर्षेण ददृश इत्यर्थः। कथमिव? मदोत्कटे मदेनोद्भिन्नगण्डे निर्भरमदे वा वन्ये गन्धद्विपे गन्धप्रधाने द्विपे गजे। रेचिता रिक्तीकृताः पुष्पाणां वृक्षा यैस्ते। त्यक्तपुष्पवृक्षा इत्यर्थः। द्विरेफा भृङ्गा इव। द्विपस्य `वन्य` विशेषणै द्विरेफाणां पुष्पवृक्षत्यागसंभावनार्थं कृतम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.6) All Verses in Chapter 6 Next Verse (RV 6.8) →