Skip to main content
Search
Ch. 6 RV 6.37
Full Chapter
RV • Chapter 6: Canto 6

RV 6.37

Canonical Ref: RV 6.37
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तामग्रतस्तामरसान्तराभामनूपराजस्य गुणैरनूनाम् । विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ सुनन्दा तामरसान्तराभां पद्मोदरतुल्यकान्तिम्। कनकगौरीमित्यर्थः। गुणैरनूनाम्। अधिकामित्यर्थः। शोभना दन्ता यस्याः सा सुदती। `वयसि दन्तस्य दतृ` (पा.5।4।141) इति दत्रादेशः। `उगितश्च` (पा.4।1।6)इति ङीप्। तां प्रकृतां प्रसिद्धां वा विधातुर्ललितां सृष्टम्। मधुरनिर्माणां स्त्रियमित्यर्थः। अनुगता आपो येषु तेऽनूपा नाम देशाः। `ऋक्पूरब्धूः पथामानक्षे` (पा.5।4।74) इत्यप्रत्ययः समासान्तः। `ऊदनोर्देशे` (पा.6।3।98) इत्यूदादेशः। तेषां राज्ञोऽनूपराजस्याग्रतो विधाय व्यवस्थाप्य भूयः पुनर्जगाद ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.37. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.36) All Verses in Chapter 6 Next Verse (RV 6.38) →