Skip to main content
Search
Ch. 6 RV 6.36
Full Chapter
RV • Chapter 6: Canto 6

RV 6.36

Canonical Ref: RV 6.36
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के । बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति॥ उत्तमसौकुमार्योत्कृष्टाङ्गमार्दवा सेन्दुमती। अभिद्योतितान्युल्लसितानि बन्धव एव पद्मानि येन तस्मिन्। प्रतापेन तेजसा संशोषिताः शत्रव एव पङ्काः कर्दमा येन तस्मिन्। तस्मिन्नवन्तिनाथे कुमुद्वती। `कुमुदनडवेतसेभ्यो डतुपु` (पा.4।2।87)इति ङ्मतुप्प्रत्ययः। भानुमत्यंशुमतीव। भावं चित्तं न बबन्ध। न तत्रानुरागमकरोदित्यर्थः। बन्धूनां पद्मत्वेन शत्रूणां पङ्कत्वेन च निरूपणं राज्ञः सूर्यसाम्यार्थम् ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.36. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.35) All Verses in Chapter 6 Next Verse (RV 6.37) →