Skip to main content
Search
Ch. 6 RV 6.34
Full Chapter
RV • Chapter 6: Canto 6

RV 6.34

Canonical Ref: RV 6.34
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । तमिस्रपक्षेऽपि सह प्रियामिर्ज्योत्स्नावतो निर्विशति प्रदोषान् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): असाविति॥ असाववन्तिनाथः महाकालं नाम स्थानविशेषशः, तदेव निकेतनं स्थानं यस्य तस्य चन्द्रमौलेरीश्वरस्याऽदूरे समीपे वसन्। अत एव हेतोस्तमिस्रपक्षे कृष्णपक्षेऽपि प्रियाभिः सह ज्योत्स्नावतः प्रदोषान्रात्रीर्निर्विशत्यनुभवति किल। नित्यज्योत्स्नाविहारत्वमेतस्यैव नान्यस्येति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.34. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.33) All Verses in Chapter 6 Next Verse (RV 6.35) →