Skip to main content
Search
Ch. 6 RV 6.33
Full Chapter
RV • Chapter 6: Canto 6

RV 6.33

Canonical Ref: RV 6.33
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि । कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अस्येति॥ समग्रशक्तेः शक्तित्रयसंपन्नस्यास्यावन्तिनाथस्य प्रयाणेषु जैत्रयात्रास्वग्रेसरैर्वाजिभिरश्वैरुत्थितानि रजांसि सामन्तानां समन्ताद्भक्तानां राज्ञां ये शिखामणयश्चूडामणयस्तेषां प्रभाप्ररोहास्तमयं तेजोऽङ्कुरनाशं कुर्वन्ति। नासीरैरेवास्य शत्रवः पराजियन्त इति भावः ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.33. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.32) All Verses in Chapter 6 Next Verse (RV 6.34) →