Skip to main content
Search
Ch. 6 RV 6.57
Full Chapter
RV • Chapter 6: Canto 6

RV 6.57

Canonical Ref: RV 6.57
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अनेनेति॥ अनेन राज्ञा सार्धं तालीवनैर्मर्मरेषु मर्मरेति ध्वनत्सु। `अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्`इत्यमरवचनाद्गुणपरस्यापि `मर्मर` शब्दस्य गुणिपरत्वं प्रयोगादवसेयम्। अम्बुराशेः समुद्रस्य तीरेषु द्वीपान्तरेभ्य आनीतानि लवङ्गपुष्पाणि देवकुसुमानि यैस्तैः। `लवङ्गं देवकुसुमम्` इत्यमरः (अ.को.2|6|126)। मरुद्भिर्वातैरपाकृताः प्रशमिताः स्वेदस्य लवा बिन्दवो यस्याः सा तथाभूता सती त्वं विहर क्रीड ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 6.57. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 6.56) All Verses in Chapter 6 Next Verse (RV 6.58) →