Skip to main content
Search
RV
Raghuvaṁśam • Chapter 04

Canto 4

चतुर्थः सर्गः (रघुदिग्विजयः)

Canto 4 of Raghuvaṁśam.

Total: 88 Verses • Citations: RV 4.1–88 • 1 Lexicon Terms • Page 2 of 3 (Verses 30 shown)
RV 4.31 अनुष्टुप्
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः । विपिनानि प्रकाशानि शक्तिमत्त्वाञ्चकार सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मर्विति॥ स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि। `समानौ मरुधान्वानौ` इत्यमरः (अ.को.1|10|10)। उदम्भांस्युद्भूतजलानि चकार। नाव्या नौभिस्तार्या नदीः। `नाव्यं त्रिलिङ्गं नौतार्ये` इत्यमरः (अ.को.1|10|10)। a`नौवयोधर्मविषमूल-` (पा.4।4।91)इत्यादिना यत्प्रत्ययः। सुप्रतराः सुखेन तार्याश्चकार। विपिनान्यरण्यानि। `अटव्यरण्यं विपिनम्` इत्यमरः (अ.को.1|10|10)। प्रकाशानि निर्वृक्षाणि चकार। शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः॥
RV 4.32 अनुष्टुप्
स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ महतीं सेनां पूर्वसागरगामिनीं कर्षन् स रघुः। हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन्। सापि पूर्वसागरगामिनी। भगीरथ इव। बभौ। भगीरथो नाम कश्चित्कपिलदग्धानां सागराणां नप्ता तत्पावनाय हरकिरीटाद्गङ्गा प्रवर्तयिता राजा। यत्संबन्धाद्गङ्गा च भागीरथीति गीयते ॥
RV 4.33 अनुष्टुप्
त्याजितैः फलमुत्खातैर्भग्नैशअच बहुधा नृपैः । तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): त्याजितैरिति॥ `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः` इति केशवः। फलं लाभम्। वृक्षपक्षे, -प्रसवं च। त्याजितैः। त्यजेर्ण्यन्ताद्द्वकर्मकादप्रधाने कर्मणि क्तः। उत्खातैः स्वपदाञ्च्यावितैः। अन्यत्र, -उत्पाटितैः। बहुधा भग्नै रणे जितैः। अन्यत्र, -छिन्नेः। नृपैः। पादपैर्दन्तिनो गजस्येव तस्य रघोर्मार्ग उल्बणः प्रकाश आसीत्। `प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम्` इति यादवः॥
RV 4.34 अनुष्टुप्
पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदाञ्जयी । प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पौरस्त्यानिति॥ जयी जयनशीलः। `जिदृक्षिविश्री-` (पा.3।2।147) इत्यादिनेनिप्रत्ययः। स रघुरेवम्। पुरो भवान् पौरस्त्यान्प्राच्यान्। `दक्षिणापश्चात्पुरसस्त्यक्` (पा.4।2।98) इति त्यक्प्रत्ययः। तांस्तान्, सर्वानित्यर्थः। वीप्सायां द्विरुक्तिः। जनपदान्देशानाक्रामन्। तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप॥
RV 4.35 अनुष्टुप्
अनम्राणां समुद्धर्तस्तस्मात्सिन्धुरयादिव । आत्मा संरक्षितः सुह्यैर्वृत्तिमाश्रित्य वैतसीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अनम्राणामिति॥ अनम्राणाम्। कर्मणि षष्ठी। समुद्धर्तुरुन्मीलयितुस्तस्माद्रघोः सकाशात्। `भीत्रार्थानां भयहेतुः` (पा.1।4।25)इत्यपादानत्वात्पञ्चमी। सिन्धुरयान्नदीवेगादिव सुह्नैः सुह्नदेशीयैः। सुह्नादयः शब्दा जनपदवचनाः क्षत्रियमाचक्षते। वैतसीं वेतसः संबन्धिनीं वृत्तिम्। प्रणतिमित्यर्थः। आश्रित्य। आत्मा संरक्षितः। अत्र कौटिल्यः-`बलीयसाभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वेतसं धर्ममातिष्ठेत्`इति ॥
RV 4.36 अनुष्टुप्
वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् । निचखान जयस्तम्भान्गङ्गास्रोतोन्तरेषु सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): वङ्गानिति॥ नेता नायकः स रघुर्नौभिः साधनैरुद्यतान्संनद्धान् वङ्गान्राज्ञस्तरसा बलेन। `तरसी बलरंहसी` इति यादवः। उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान। स्थापितवानित्यर्थः॥
RV 4.37 अनुष्टुप्
आपादपद्मप्रणताः कलमा इव ते रघुम् । फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): आपादेति॥ आपादपद्ममङ्घ्रिपम्दपर्यन्तं प्रणताः। अत एव, उत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः। कलमा इव शालिविशेषा इव। `शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी` इत्यमरः (अ.को.2|9|25)। तेऽप्यापादपद्मं पादपद्ममूलपर्यन्तं प्रणताः। `पादो बुध्ने तुरीयांशशैलप्रत्यन्तपर्वताः`इति विश्वः। उत्खातप्रतिरोपिताश्च। रघुं फलैर्धनैः। अन्यत्र, -सस्यैः। संवर्धयामासुः। `फलं फले धने बीजे निष्पत्तौ भोगलाभयोः। सस्ये` इति केशवः॥
RV 4.38 अनुष्टुप्
स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः । उत्कलादर्शित्प्पथः कलिङ्गाभिमुखो ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्बद्धा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा। `करभाम्`इति केचित्पठन्ति। उत्कलै राजभिरादर्शितपथः संदर्शितमर्गः सन् कलिङ्गाभिमुखो ययौ ॥
RV 4.39 अनुष्टुप्
स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् । अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य। `महेन्द्रो मलयः सह्यः शक्तिमानृक्षपर्वतः। विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः।` इति विष्णुपुराणात्। मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम्। यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं निशितमङ्कुशमिव। न्यवेशयन्निक्षिप्तवान्। `त्वग्भेदाच्छोणितस्रावान्मांसस्य क्रथनादपि। आत्मानं यो न जानाति स स्याद्गम्भीरवेदिता॥` इति राजपुत्रीये। `चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः॥` इति मृगचर्मीये ॥
RV 4.40 अनुष्टुप्
प्रतिजग्राह कालिङ्गस्तमस्त्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): प्रतीति॥ गजसाधनः सन् कालिङ्गः कलिङ्गानां राजा। `द्व्यञ्मगधकलिङ्ग-` (पा.4।1।170)इत्यादिनाण्प्रत्ययः। अस्त्त्रैरायुधैस्तं रघुम्। पक्षाणां धेद उद्यतमुद्युक्तं शक्रं शिलावर्षी पर्वत इव। प्रतिजग्राह प्रत्यभियुक्तवान् ॥
RV 4.41 अनुष्टुप्
द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): द्विषामिति॥ काकुत्स्थो रघुस्तत्र महेन्द्राद्रौ द्विषां नाराचदुर्दिनं नाराचानां बाणाविशेषाणां दुर्दिनम्। लक्षणया वर्षमुच्यते। विषह्य सहित्वा सद्यथाशास्त्त्रं मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्त इव जयश्रियं प्रतिपेदे प्राप। `यत्तु सर्वौषधिस्नानं तन्माङ्गल्यमुदीरितम्`इति यादवः ॥
RV 4.42 अनुष्टुप्
ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताम्बूलीनामिति॥ तत्र महेन्द्राद्रौ। युध्यन्त इति योधाः। पचाद्यच्। रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासवं नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः। तत्र विजह्रुरित्यर्थः। शात्रवं यशश्च पपुः, जह्रुरित्यर्थः॥
RV 4.43 अनुष्टुप्
गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): गृहीतेति॥ धर्मविजयी धर्मार्थविजयशीलः स नृपो रघुः। गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः। तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियं जहार। धर्मार्थमिति भावः। मेदिनीं तु न जहार। शरणागतवात्सल्यादिति भावः ॥
RV 4.44 अनुष्टुप्
ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तत इति॥ ततः प्राचीविजयानन्तरं फलवत्पूगमालिना फलितक्रमुकश्रेणीमता। व्रीह्यादित्वादिनिप्रत्ययः। वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येनाचरितामाशां दक्षिणां दिशमनाशास्यजयः। अयत्नसिद्धत्वादप्रार्थनीयजयः सन्। ययौ। `अगस्त्यो दक्षिणमाशामाश्रित्य नभसि स्थितः। वरुणस्यात्मजो योगी विन्धअय वातापिमर्दनः` इति ब्रह्मपुराणे ॥
RV 4.45 अनुष्टुप्
स सैन्यपरिभोगेण गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ स रघुः गजानां दानेन मदेन सुगन्धिना सुरभिगन्धिना। `गन्धस्येत्-` (पा.5।4।135)इत्यादिनेकारादेशः समासान्तः। यद्यपि गन्धस्येत्वेः तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिग्धविवक्षायामेवेकारादेशः, तथापि `निरङ्कुशाः कवयः`। तथा च माघकाव्ये(6।50)-`ववुरयुक्छदगुच्छसुगन्धयः सततगास्तगानगिरोऽलिभिः`, नैषधे च (3।93)-`अपां हि तृप्ताय न वारिधाराः स्वादुसुगन्धिः स्वदते तुषारा`इति। `न कर्मधारयान्मत्वर्थीय` इति निषेधादिनिप्रत्ययपक्षोऽपि जघन्य एव। सेनायां समवेताः सैन्याः। `सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते` इत्यमरः (अ.को.2|8|61)। `सेनाया वा` (पा.4।4।45)इति ण्यप्रत्ययः। तेषां परिभोगेन कावेरीं नाम सरितं सरितां पत्युः समुद्रस्य शङ्कनीयां न विश्वसनीयामिवाकरोत्। संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ॥
RV 4.46 अनुष्टुप्
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः । मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): बलैरिति॥ विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः। `बलं शक्तिर्बलं सैन्यम्`इति यादवः। मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता ह्रारीताः पक्षिविशेषा यासुताः। `तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः` इत्यमरः (अ.को.2|5|37)। मलयाद्रेरुपत्यका आसन्नभूमयः। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका` इत्यमरः (अ.को.2|3|8)। `उपाधिभ्यां त्यकन्-` (पा.5।4।34)इत्यादिना त्यकन्प्रत्ययः। अध्युषिताः। उपत्यकासूषितमित्यर्थः। `उपान्वध्याङ्वसः` (पा.1।4।48) इति कर्मत्वम्॥
RV 4.47 अनुष्टुप्
ससञ्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः । तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ससञ्जुरिति॥ अश्वैः क्षुण्णानामेलानामेलालतानामुत्पतिष्णव उत्पतनशीलाः `अलंकृञ-` (पा.3।2।136)इत्यादिनेष्णुच्प्रत्ययः। फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु। सर्वधनीतिवदिन्नन्ताद्बहुव्रीहिः। मत्तेभानां कटेषु ससञ्जुः सक्ताः। `गजगण्डकटी कटौ`इति कोषः ॥
RV 4.48 अनुष्टुप्
भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् । नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भोगीति॥ चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनान्निम्रेषु समर्पितं सञ्जितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि। `ग्रीवाभ्योऽण्च` (पा.4।3।57) इत्यण्प्रत्ययः। नास्रसन्न स्रस्तमभूत्। `द्युद्भ्यो लुङि` (पा.1।3।91) इति परस्मैपदम्। पुषादित्वादङ्। `अनिदिताम्-` (पा.6।4।24) इति नकारलोपः॥
RV 4.49 अनुष्टुप्
दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि । तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): दिशीति॥ दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति। लोहितादित्वात्क्यष्प्रत्ययः। `वा क्यषः` (पा.1।3।90) इत्यात्मनेपदम्। दक्षिणायने तेजोमान्द्यादिति भावः। तस्यामेव दिशि। पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः। `पाण्डोर्ड्यण्वक्तव्यः`(वा.2671)। रघोः प्रतापं न विषेहिरे न सोढवन्तः। सूर्यविजयिनोऽपि विजितवानिति नायकस्य महानुत्कर्षो गम्यते ॥
RV 4.50 अनुष्टुप्
ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः । ते निपत्य तदुस्तस्मै यशः स्वमिव संचितम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): ताम्रपर्णीति॥ ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य संगतस्य महोदधेः संबन्धि संचितं मुक्तासारं मौक्तिकवरम्। `सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु` इत्यमरः (अ.को.3|3|179)। स्वं स्वकीयं संचितं यश इव तस्मै रघवे निपत्य प्रणिपत्य ददुः। यशसः शुभ्रत्वादौपम्यम्। ताम्रपर्णीसंगमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ॥
RV 4.51 अनुष्टुप्
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्` इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य। `निर्वेशो भृतिभोगयोः` इत्यमरः (अ.को.3|3|226)। उदकान्यस्य सन्तीत्युदन्वानुदधिः। `उदन्वानुदधौ च` इति (पा.8।2।13)निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्। `स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन` (पा.2।1।39) इति समासः। `पञ्चम्याः स्तोकादिभ्यः` (पा.6।3।3) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
RV 4.52 अनुष्टुप्
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता । नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्` इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य। `निर्वेशो भृतिभोगयोः` इत्यमरः (अ.को.3|3|226)। उदकान्यस्य सन्तीत्युदन्वानुदधिः। `उदन्वानुदधौ च` इति (पा.8।2।13)निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्। `स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन` (पा.2।1।39) इति समासः। `पञ्चम्याः स्तोकादिभ्यः` (पा.6।3।3) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
RV 4.53 अनुष्टुप्
तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः । रामास्त्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः। `अपरान्तास्तु पाश्चात्त्यास्ते च सूर्यरिकादयः` इति यादवः। विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः। `अनीकं तु रणे सैन्ये` इति विश्वः। अर्णवो रामस्य जामदग्न्यस्यास्त्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत्। सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ॥
RV 4.54 अनुष्टुप्
भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् । अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): भयेति॥ तेन रघुणा भयेनोत्सृष्टविभूषाणां परिहृतभूषणानां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः चूर्णस्य सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः। एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ॥
RV 4.55 अनुष्टुप्
मुरलामारुतोद्धूतमगमत्कैतकं रजः । तद्योधवारबाणानामयत्नपटवासताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मुरलेति॥ मुरला नाम केरलदेशेषु काचिन्नदी, तस्या मारुतेनोद्धूतमुत्थापितम्। `मुरवीमारुतोद्भूतम्` इति केचित्पठन्ति। कैतकं केतकसंबन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम्, `कञ्चुको वारबाणोऽस्त्त्री` इत्यमरः (अ.को.2|6|140)। अयत्नपटवासतामयत्नसिद्धवस्त्त्रवासनाद्रव्यत्वमगमत्। `पिष्टातः पटवासकः` इत्यमरः (अ.को.2|6|140) ॥
RV 4.56 अनुष्टुप्
अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः । वर्मभिः पवनोद्धूतराजतालीवनध्वनिः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अभ्यभूयतेति॥ चरतां गच्छतां वाहानां वाजिनां, `वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः` इत्यमरः (अ.को.2|8|44)। गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः। कर्तरि क्तः। `गात्रसञ्जितैः` इति वा पाठः। सञ्जतेर्ण्यन्तात्कर्मणि क्तः। वर्मभिः कवचैः। `मर्मरैः` इति पाठे वाहानां गात्रशिञअजितैर्गात्रध्वनिभिरित्यर्थः। मर्मरो मर्मरायमाण इति ध्वनेर्विंशेषणम्। पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः ॥
RV 4.57 अनुष्टुप्
खर्जूरीस्कन्धनद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): खर्जूरीति॥ खर्जूरीणां तृणद्रुमविशेषाणाम्। `खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमा` इत्यमरः (अ.को.2|4|170)। स्कन्धेषु प्रकाण्डेषु। `अस्त्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः` इत्यमरः (अ.को.2|4|170)। नद्धानां बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु। `गन्धस्येत्-` (पा.5।4।135) इत्यादिनेकारः। कटेषु गण्डेषु पुंनागेभ्यो नागकेशरेभ्यः पुंनागपुष्पाणि विहाय। ल्यब्लोपे पञ्चमी। शिलीमुखा अलयः पेतुः। `अलिबाणौ शिनीमुखौ` इत्यमरः (अ.को.2|4|170)। ततो।ञपि सौगन्ध्यातिशयादिति भावः ॥
RV 4.58 अनुष्टुप्
अवकाशं कोलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): अवकाशमिति॥ उदन्वानुदधी रामाय जामदग्न्याय। अभ्यर्थितो याचितः सन्। अवकाशं स्थानं ददौ किल। `किल` इति प्रसिद्धौ। रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ। `बलिहस्तांशवः कराः` इत्यमरः (अ.को.3|3|172)। अपरान्तानां समुद्रमध्यदेशवर्तित्वात्तैर्दत्ते करे समुद्रदत्तत्वोपचारः। करदानं च भीत्या, न तु याञ्चयेति रामाद्रघोरुत्कर्षः ॥
RV 4.59 अनुष्टुप्
मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् । त्रिकूटमेव तत्रोञ्चैर्जयस्तम्भं चकार सः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): मत्तेति॥ तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव। भावे क्तः। व्यक्तानि स्फुटानि विक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णावलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोञ्चैर्जयस्तम्भं चकार। गाढप्रहारस्त्त्रिकूटो।ञद्रिरेवोत्कीर्णवर्णस्तम्भ इव रघोर्जयस्तम्भोऽभूदित्यर्थः ॥
RV 4.60 अनुष्टुप्
पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मा । इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः): पारसीकानिति॥ ततः स रघुः। संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान् रिपूनिव। पारसीकान् राज्ञो जेतुं स्थलवर्त्मना प्रतस्थे। न तु नेदिष्टेनापि जलपथेन। समुद्रयानस्य निषिद्धत्वादिति भावः ॥
← Previous (Ch. 3) Full Table of Contents Next (Ch. 5) →