Skip to main content
Search
Ch. 4 RV 4.46
Full Chapter
RV • Chapter 4: Canto 4

RV 4.46

Canonical Ref: RV 4.46
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः । मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): बलैरिति॥ विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः। `बलं शक्तिर्बलं सैन्यम्`इति यादवः। मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ता ह्रारीताः पक्षिविशेषा यासुताः। `तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः` इत्यमरः (अ.को.2|5|37)। मलयाद्रेरुपत्यका आसन्नभूमयः। `उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका` इत्यमरः (अ.को.2|3|8)। `उपाधिभ्यां त्यकन्-` (पा.5।4।34)इत्यादिना त्यकन्प्रत्ययः। अध्युषिताः। उपत्यकासूषितमित्यर्थः। `उपान्वध्याङ्वसः` (पा.1।4।48) इति कर्मत्वम्॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.46. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.45) All Verses in Chapter 4 Next Verse (RV 4.47) →