Skip to main content
Search
Ch. 4 RV 4.51
Full Chapter
RV • Chapter 4: Canto 4

RV 4.51

Canonical Ref: RV 4.51
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ । स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ असह्येति च॥ युग्ममेतत्। असह्यविक्रमः स रघुस्तटेषु सानुष्वालीनचन्दनौ व्याप्तचन्दनद्रुमौ। गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्त्रियाम्` इत्यमरः। स्तनपक्षे, -प्रान्तेषु व्याप्तचन्दनानुलेपौ। तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य। `निर्वेशो भृतिभोगयोः` इत्यमरः (अ.को.3|3|226)। उदकान्यस्य सन्तीत्युदन्वानुदधिः। `उदन्वानुदधौ च` इति (पा.8।2।13)निपातः। उदन्वता दूरान्मुक्तं दूरतस्त्यक्तम्। `स्तोकान्तिकदूरार्थिकृच्छ्राणि क्तेन` (पा.2।1।39) इति समासः। `पञ्चम्याः स्तोकादिभ्यः` (पा.6।3।3) इत्यलुक्। स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयत् प्राप्तोऽतिक्रान्तो वा ॥
Canonical CTS URN Reference
Raghuvaṁśam, RV 4.51. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RV 4.50) All Verses in Chapter 4 Next Verse (RV 4.52) →